Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 281
________________ ६८२ इत्येवंसम्बन्धस्यास्य व्याख्या, इहापि संहितादिचर्चः प्रथमाध्ययनवत्, केवलं लोकस्य पञ्चास्तिकायात्मकस्य स्थितिः स्वभाव: लोकस्थितिः, यदित्युद्देशे, णमिति वाक्यालङ्कारे, उद्दाइत्त त्ति अपद्राय मृत्वेत्यर्थः, तत्थेव त्ति लोकदेशे गतौ योनौ कुले वा सान्तरं निरन्तरं वौचित्येन भूयो भूयः पुन: पुन: प्रत्याजायन्ते प्रत्युत्पद्यन्त इत्येवमप्येका लोकस्थितिरिति १, अपिशब्द उत्तरवाक्यापेक्षया, अपि: क्वचिन्न दृश्यते। अथ द्वितीया- जन्नमित्यादि, सदा प्रवाहतोऽनाद्यपर्यवसितं कालं समियं ति निरन्तरं पापं कर्म ज्ञानावरणादिकं सर्व्वमपि मोक्षविबन्धकत्वेन सर्वस्यापि पापत्वादिति क्रियते बध्यते इत्येवमप्येका अन्येत्यर्थः, सततकर्मबन्धनमिति द्वितीया २ । मोहणिजे त्ति मोहनीयं प्रधानतया भेदेन निर्दिष्टमिति सततमोहनीयबन्धनं तृतीया ३। जीवा-ऽजीवानामजीव-जीवत्वाभावश्चतुर्थी ४। त्रसानां स्थावराणां चाव्यवच्छेदः पञ्चमी ५। लोका-ऽलोकयोरलोक-लोकत्वेनाभवनं षष्ठी ६। तयोरेवान्योन्याप्रवेश: सप्तमी ७। जाव ताव लोए ताव ताव जीव त्ति यावल्लोकस्तावज्जीवा:, यावति क्षेत्रे लोकव्यपदेशस्तावति जीवा इत्यर्थः । जाव ताव जीवा ताव ताव लोए त्ति, इह यावज्जीवास्तावत्तावल्लोकः, यावति यावति क्षेत्रे जीवास्तावत् क्षेत्रं लोक इति भावार्थ:, जाव तावेत्यादिवाक्यरचना तु भाषामात्रमित्यष्टमी ८ । यावज्जीवादीनां गतिपर्यायस्तावल्लोक इति नवमी ९।। ___ सर्वेषु लोकान्तेषु अबद्धपासपुट्ट त्ति बद्धा गाढश्लेषा:, पार्श्वस्पृष्टा: छुप्तमात्राः, ये न तथा तेऽबद्धपार्श्वस्पृष्टाः, रूक्षद्रव्यान्तरेणेति गम्यते, तत्सम्पर्कादजातरूक्षपरिणामाः सन्त इति भाव:, लोकान्ते स्वभावात् पुद्गला: रूक्षतया क्रियन्ते रूक्षतया परिणमन्ति, [अथवा लोकान्तस्वभावाद्या रूक्षता भवति तया ते पुद्गला अबद्धपार्श्वस्पृष्टाः परस्परमसम्बद्धाः क्रियन्ते, किं सर्वथा ?, नैवम्, अपि तु तेनेत्यस्य गम्यमानत्वात्तेन] रूपेण क्रियन्ते येन जीवा: सकर्मापुद्गला:, पुद्गलाश्च परमाण्वादयः, नो संचायंति त्ति न शक्नुवन्ति बहिस्ताल्लोकान्ताद् गमनतायै गन्तुमिति, छान्दसत्वेन तुमर्थे युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी १०, शेषं कण्ठ्यमिति ।

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372