Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 141
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ ] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः हा हतोऽस्मि हतोऽस्मीति, क्रन्दन्तं तं जगौ नृपः। . निस्त्रिंशेन मया बाढं, दुःखितोऽस्ति हहा ! भवान् ॥२५५।। तमवादीत् पलादोऽपि, त्वं दयालुशिरोमणिः । न छिन्नं यदि मे शीर्ष, करालकरवालतः ॥२५६॥ कृपालो ! हन्तु घातेन, दुःखितश्च बुभुक्षितः। भक्ष्यं पेयं किमप्यस्मै, यच्छ वत्सलचेतसा ॥ २५७ ॥ भूपः प्रोचे फलं देयं, जलं वा सोऽप्यभाषत । नृमांसशोणिताम्वादाः, पलादास्त्वं न वेत्सि किम् ! ॥२५८।। द्विवान् द्वौ वा नरं चैक, देह्येतेषु नरेश्वर । नृपोऽवक् संकथां मुश्च, जीवहिंसापथोचिताम् ॥ २५९॥ सोऽवक् प्राणाः प्रयास्यन्ति, प्रहारेण क्षुधा च मे । परं कृपायास्ते देव ., दास्यते हि जलाञ्जलिम् ॥ २६० ॥ सत्यमेतदिति क्षमापस्तं जगौ तनिजागतः । जाङ्गलं शोणितं किश्चिद्, ददे रक्षस्तमब्रवीत् ॥ २६१ ।। ममेदृक् प्रौढदेहस्य, तेन स्वल्पेन किं भवेत् । अस्माकं नरमप्येकं, विना का तृप्तिरुच्यताम् ! ।। २६२ ।। जगौ सच्चधरो राजा, सस्वरक्षाकरः परः । उत्तिष्ठ भो ! मया देहः, सकलः कल्पितस्तव ॥ २६३ ।। तत्क्षणादुत्थितं रक्षो, जन्तुरक्षोद्यतं नृपम् । स्माह साहसमेतद्धि, किमर्थ क्रियते त्वया ? ॥ २६४ ॥ दत्वेषु नरमप्येकं, त्वं राज्यं सुचिरं कुरु।। भूपोऽवक् किमु राज्येन, तेन जीववधो यदि ॥ २६५ ॥ रक्षो जगौ वयं देवा देवानामनलो मुखम् ।। त स्थस्य मे स्कन्धमारुह्य त्वं पताऽनले ॥ २६६ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199