Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra (वर्गः ) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वोपचदुर्ग पदव्याक्यालङ्कृतम् । बाल्यं क्रमादतिक्रम्य, द्विधा शास्त्रविशारदः । चक्रे द्विधाऽपि धीराणां, चमत्कारमयं हृदि ॥ २३२ ॥ [ १७५ शक्तः शिशुरपि प्रौढमहेलां भोक्तुमन्वहम् । किं चित्रं वरुणः सैष, शिश्रियेऽनेकशो वधूः ॥ २३३ ॥ For Private And Personal Use Only दु० व्या० - महा इलां - पृथिवीम् ॥ २३३ ॥ बालार्कः प्रसरत्प्राज्यप्रतापः पृथिवीतले । । चित्रं यैः सेवितस्तेषु, श्रेयोऽभून्नापरे पुनः ॥ २३४ ॥ कदाचिदेष विज्ञाततात संयम संकथः । वदंद्रियुगलं नन्तुमभूदुस्कण्ठितस्तराम् ॥ २३५ ॥ तं चान्यदाऽवनपाल, वनीपालो व्यजिज्ञपत् । वनं पुनन्ति राजर्षितातपादास्तव प्रभो ! || २३६ ॥ दत्वाङ्गभूषणान्यस्मै तत्क्षणं मुदितः पुरम् । तोरणध्वजमुख्यैः स भूषयामास पूरुषैः ॥ २३७ ॥ शृङ्गारिताथ दन्तीन्द्रः शृङ्गारितमहापथः । अपवाद्याधिरूढोऽयं, तातं नन्तुमथाचलत् ॥ २३८ ॥ परिधाप्य तरून् मार्गे, स्वस्तिकान् पुरयन्नधः । इत्याद्युत्सवपुरेण स प्रापत् पावनं वनम् ।। २३९ ।। तातं गुरुं ततः साधु-साध्वीव्रातपरिष्कृतम् । विवेकवान् ववन्देऽसौ मुदश्रुप्लुतलोचनः ॥ २४० ॥ एकं गुरुः परं तातस्त्रिजगत्ख्यातकीर्तिभाक् । किं चित्रं यन्मुदे सोऽस्य, स्वर्णमेकं सुगन्धि च ॥ २४१ ॥ धर्माधिपाय, मेघधारोपमां गुरुः । उद्ग्रीवं भव्यसारङ्गैरास्वाद्य देशनां व्यधात् ॥ २४२ ॥ दु० व्या० - सारङ्गैः चातकैः ॥ २४२ ॥

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199