Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 195
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ ] श्रीश्रीधरचरितमहाकाव्यम् । (नवमः आहत्य स पितुः पार्श्वे, श्रद्धाऽहं धर्ममार्हतम् । पुनर्नत्वा तमापृच्छय, मुदितः स्वपुरं ययौ ॥ २४३ ॥ न्यायधर्मधुरीणस्य बालार्कस्याभवद् भुवि । प्रजानुरागविभ्राजः, साम्राज्यमुदितोदितम् ॥ २४४ ॥ अथो विजयराजषिविश्वविश्वम्भरासरः । चिरं हंस इव स्वैरविहारेण व्यभासयत् ॥ २४५ ।। चत्वारो मन्त्रिमुनयश्चारुचारित्रनिश्चलाः । केवलज्ञानमासाद्य, सिद्धिसौख्यं सिषेविरे ॥ २४६ ॥ साध्वीषु मुख्यतां प्राप्ता, साध्वी साऽपि सुलोचना । तपसा कर्ममाणि, भित्त्वा शिवपुरं ययौ ॥ २४७॥ एवं सेवधिसारसंयमशमध्यानामृतमीणितः, स्वान्तस्तान्तभवान्तकारिकरुणाकेलिगृहं सस्पृहम् । भव्येषु द्विविधं निवेश्य विशदं धर्म घरामण्डले, पुर्णापुर्विजयो विमानममलः सर्वार्थसिद्धिं ययौ ॥ २४८ ॥ दु० व्या०-सेवधिः-निधानम् । तान्तः-विस्तीर्णः ॥२४८॥ च्युतश्चम्पापुर्यामथ परमदेवक्षितिपतेः, कुलोत्सः कंसद्विषत इव सोऽरिष्टमथनात् । प्रभुश्रीमत्पाच्चिरणसुरमाणिक्यलभना चिरं भेजे सौख्यं शिवपदगतः सम्मदमयम् ।। २४९ ।। इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याके श्रीश्रीधरचरिते विजयचन्द्रसिद्धिगमनो नाम नवमः सर्गः समाप्तः ॥ ॥ प्रन्थानम् २५८ स० २६ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199