Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 152
________________ Shri Mahavir Jain Aradhana Kendra वर्गः] www.kobatirth.org स्वोपशदुर्गपदव्याक्यालङ्कृतम् । तेन सम्मानितस्तूर्ण, सगौरवमयं जगौ । दर्शये शूरभूमिं ते, समराय समं परैः ॥ ३७८ ॥ विजयः कौतुकादल्पतन्त्रस्तेन सह व्रजन् । प्रासादं तुङ्गमद्राक्षीन्मध्ये मूर्ति तथाईतः || ३७९ || एकतः साधुमूर्ति च क्रमलग्ने कखेचराम् । हेतुं पृष्टस्ततः स्माह, वज्रबाहुर्महीपतिम् ॥ ३८० ॥ इदं वालपेस्तीर्थ, तदैतिह्यं शृणु प्रभो ! । पुरे हिरण्यनाभाख्ये, सुवेगः खेचरोऽभवत् ।। ३८१ ॥ भद्राकुक्षिभस्तस्य, देवेन्द्र इति नन्दनः । मुनिचन्द्रमुनेः पार्श्वे, बाल एवाग्रहीद् व्रतम् || ३८२ ॥ बार्षिरिति विख्यातो, वैरविकशिरोमणिः । तपः स दुस्तपं कुर्वन्, कायोत्सर्गेऽथ तस्थिवान् ॥ ३८३ ॥ मिथ्याहक खेचरो हेमचूलस्तस्योपरि ब्रजन् । स्खलितः कुपितो वीक्ष्य मुनिं ताडयति स्म तम् ॥ ३८४ ॥ मुमुक्षोः सहमानस्योत्पेदे केवलमुज्ज्वलम् । बद्ध्वा समसुरैरूचे, हेमचूलो व्यथाकुलः || ३८५ ।। प्रासादो जिनमूर्तिश्व, साधुमूर्तिः स्वमूर्तियुक् । विवाप्यते तन्मोक्षस्तव रे दुष्ट ! नान्यथा ॥ ३८६ ॥ अपने ससुरैर्मुक्तोऽक्षामयन्मुनिपुङ्गवम् । तीर्थ व्यधापयचैतत्प्रभावोऽस्य निशम्यताम् ॥ ३८७ ॥ + Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only | १३३ देवान् नत्याऽत्र यो युद्धं, प्रस्तुतेऽस्य दिशि स्थितः । स नेन्द्रेणापि जीयेत, मल्लाभ्यां वा परीक्षम ।। ३८८ ।। दु० व्या० प्रस्तुते - प्रारभते || ३८८ ||

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199