Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 171
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ ] श्रीधीघरधरितमहाकाध्यम [ अपमा तदङ्गसङ्गमे रङ्गत्तरङ्गरतिभङ्गिभिः । अनङ्गतापनिर्वापमाप सा पद्मलोचना ॥ ५७९ ॥ मातरं च स्वसारं च, गागलेराश्रमान्नृपः । अनीकिनी च कान्तारात्, खगैः स्वान्तिकमानयत् ॥५८०॥ नवज्योतिश्चक्रभ्रममथ विमानवियति स सफुरज्ज्योतिर्जालैर्जनमनसि तन्वन्ननु दिशम् । महानन्दोत्साहोत्सवमयमहो ! मङ्गलपुरं, प्रविश्य प्राणसी पिचरणपो प्रमुदितः ।। ५८१ ॥ पिताऽऽश्लिष्य स्वाङ्गैश्चिरविरहदावानलशम क्षमं सूनुं नूनं नयनजलधाराजलधरम् । मुदश्रूणां श्रावं सपदि विदधानः स्वयमपि, प्रतेने नाश्चर्य क्षितिधरवरः कस्य हृदये ॥ ५८२ ॥ तस्मिन्नेव मुहूर्त एष विजयं माणिक्यसिंहासने, न्यस्य श्रीजयचन्द्रभूपतिरदात् प्राज्यं स्वराज्यं मुदा । श्रीक्षेमकरसद्गुरुक्रमतले कृत्वा तपो निर्मलं, सिद्धिश्रीपरिरम्भसम्भवसुखं मेजे स्वयं केवली ॥ ५८३ ॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविचिते माणिक्याङ्के श्रीश्रीधरचरित विजयकथायां सुलोचनाहरण-प्रत्यानयनवर्णनो नाम अष्टमः सर्ग समाप्तः ॥ ग्रन्थानम् ५६९ अ० २३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199