Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 186
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपझदुर्गपदव्याख्यालङ्कृतम् । [१६७ पुर: पूत्क्रियते कस्य, सदा कारा वधूरियम् । वदन्तोऽपीति तत्सङ्गमीहन्ते हन्त ! बालिशाः ॥ १४२ ।। दु० व्या०-कारा-गुप्तिगृहम् ॥ १४२ ॥ योषिजघनरोमालिगोदण्डे पतयालवः । न विदन्तीति हा ! मुर्खा भ्रमिष्यामो भवाटवीम् ।। १४३ ॥ पुरीषमूत्रमूषासु, योषासु जडताभृतः । मुह्यन्ति मोहनव्यग्रा महामोहविमोहिताः ॥ १४४ ।। अत्यक्तकामास्ते मृत्वा, सहन्ते हन्त ! यातनाः । कुदेवेषु कुमर्येषु, तिर्यक्षु नरकेषु च ॥ १४५ ।। अतः प्रमादमुत्सार्य, धर्मः कार्यः सचेतनः । पश्चादपि यो धर्म, संधत्ते सोऽपि शस्यते ॥ १४६॥ यस्तु शाश्वतसौख्येच्छुरुद्वोढुं संयमश्रियम् । इहते मोहोत्रोऽसौ, धन्य एव यदुच्यते ।। १४७ ॥ दुर्लभं जगति जन्म मानुष, तत्र जैनवचनं सुदुर्लभम् । कश्चिदेव लभते च भाग्यवान्, सिद्धिनायकसुताङ्गसङ्गमम् ॥ १४८॥ स्वचित्तानुगतं श्रुत्वा, मुदितो मेदिनीपतिः । मुनीन्दुं प्राञ्जलिः प्राह, किञ्चिद् विज्ञपये प्रभो! ।। १४९ ॥ केयं सिद्धिरिति ख्याता, कश्च तन्नायकस्तथा। केयं तस्य सुता यस्या दुर्लभः सङ्गमः स्मृतः ॥ १५० ॥ मुनिर्जगाद देवाधिदेवः सिद्धिपुरीप्रभुः । धन्यमूर्धन्यतत्कन्यां, जानीयाः संयमश्रियम् ॥ १५१ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199