Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 190
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्ग: स्वोपचदुर्गपदय्याव्यालङ्गतम् । अद्यापि नाथ ! तारुण्यमरण्यमिव दुस्तरम् । बाधतेऽनङ्गभिल्लोऽत्र, स्वल्पेऽप्येकाकिनं जनम् ॥१८४ ॥ नव्यं रत्नमयं सौधमिदं च तनुते मुदम् । भजस्व तदलङ्कृत्य, पूर्ववद् भोगसंपदम् ॥ १८५ ॥ सरसीदीपिकादोलावापीमुख्यानि वल्लभ !। क्रीडास्थानानि दुःस्थानि, मया सह विधेहि मा ॥ १८६ ।। तीते वयसि तारुण्ये, त्वयाऽऽहत्यापि संयमम् । स्वेप्सितं साधयेः स्वामिन् !, समये शोभतेऽखिलम् ॥१८७।। अथ भूपः प्रियां स्माह, शृणु सुन्दरि । मदचः। विवेकवर्जितो जन्तुः, किं किं कुर्यान तादृशम् ॥१८८ ॥ ममाऽद्योन्मीलयामास, साधुर्वाक्यसुधाञ्जनैः । विवेकलोचनं तेन, तत्वातत्त्वं व्यलोकयम् ॥ १८९ ॥ ध्वजाश्चलाधिकल्लोलचपलागोलवच्चलः ।। असार एष व्यापारः, सारो धर्मश्च निश्चलः ॥ १९० ।। तपाखड्गधरो जित्वा, स्मरारि सति यौवने । संयम संजिघृक्षामि, प्रवयाः किं करिष्यति ? ॥ १९१ ॥ नानिलैः पूर्यते व्योम, सागरः सलिलैन च । नेन्धनस्तृप्यति शिखी, जन्तुश्च विषयैस्तथा ॥ १९२ ।। विमानवनवापीषु, पुरा स्वर्गे सुखायितम् । मया चेत् तर्हि वेश्मायैः, किं सौख्यं मानवे भवे १ ॥१९३॥ महोराशिमयीग्वेव, ललितं स्वर्वधूषु चेत् ।। तन्मूत्रविण्मयस्त्रीषु, कि सौख्यं मानवे भवे ॥ १९४ ॥ गते वयसि चात्तस्य, संयमस्य क्रियाऽपि न । क्षणं न चायुर्विश्वासो, दुष्टं तत् केन वार्धकम् ।। १९५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199