Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 182
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपष्ठदुर्गपदभ्याख्यालङ्कृतम् । [ १६३ धन्यः स कृतपुण्यश्च पुण्यलावण्यवाहिनी । यं वरं याति सा कन्या भाग्य सौभाग्यसागरम् ॥ १०२ ॥ यथा तथा मया ग्राह्या, विवाह्यासाद्य सुन्दरी । ध्यात्वेति भूधनो दीप्रदीपच्छायामशिश्रयत् ॥ १०३ ॥ अत्रासा तत्र सा यावद्, बाला वाचालनूपुरा । भवेद् भुवि जामस्या भूपतिस्तावदग्रहीत् ॥ १०४ ॥ दु० व्या०- अत्रासा:-अभी: ॥ १०४ ॥ मुश्च मुश्च महाराज !, जल्पन्तीमिति कोमलम् । तामाश्वास्य नृपः प्रोचे, का त्वं किमिति खेलसि ? ।। १०५ ।। कि हंसयुग्ममंसस्थं, तब हस्ते शुकस्तु कः ? | दीपसाक्ष्यमुरीकृत्य, कन्ये ! त्वं मां कृतार्थय ॥ १०६ ॥ युग्मम् ॥ ॥ साव देवाधिदेवस्थ, सुता सिद्धिपुरीशितुः । नाकिनामपि मान्याsहं, विज्ञेया विज्ञकन्यका ॥ १०७ ॥ न रुजा न भयं किञ्चिन्न मृत्युर्न जराऽपि मे । विश्वे नाम्नैव पाञ्चाली, सत्याऽहं नित्ययौवना ॥ १०८ ॥ दु० व्या०- पाञ्चाली - द्रौपदी, तस्या निव्ययौवना नाम ॥ १०८ ॥ वाच्या तु मानवी नाहं, नामरी न च किन्नरी । नरं वरं वृणोम्येषा, परं मे संगरं शृणु ॥ १०९ ॥ दु० व्या० - संगरं प्रतिज्ञा ॥ १०९ ॥ यः स्याद् वृत्तचतुः शैलः, सलीलं ब्रह्मविद् द्विजः । मवृत्तज्ञेन तेनाहं वरं वृण्वे पुरोधसा ॥ ११० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199