Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 158
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपश्च दुर्गपदव्याक्यालङ्कृतम् । गान्धारी कुक्षिसंभूतौ सुतौ तस्य बभूवतुः । चन्द्रश्च श्रीधरती, क्रमात् तारुण्यमापतुः ॥ ४४४ ॥ मृगयाव्यसनासक्तं निघ्नन्तं कानने मृगान् । व्याघ्रो भूपं जघानै नमैनसं दर्शयन् फलम् ॥ ४४५ ॥ मन्त्रिभिर्बोधिता प्राणान्, जिहासुर्मासरेऽनले । गान्धारी धर्ममर्मज्ञा, चन्द्रं राज्ये न्यवीविशत् ॥ ४४६ ॥ श्रीधरस्य प्रिया गौरी, गौरीवाभून्मनोहरा । सेवालनीलं गङ्गाम्बु, यस्याः शीलसमं न हि ॥ ४४७ ॥ क्रीडितुं काननेऽन्येद्युर्व्रजन् वातायनस्थिताम् । चन्द्रचन्द्रमुखीमेतां वीक्ष्य चित्ते व्यचिन्तयत् ।। ४४८ ॥ कटरे रूपलावण्यस्फुटरेखामियं ययौ । धन्यः स मन्यते योऽस्याः परिरभ्याधरं पपौ ॥ ४४९ ॥ भृत्याद् ज्ञात्वा वधूं बन्धोर्बन्धुराङ्गीमिमामसौ । स्वराज्यफलमस्यैव, मेने मलिनमानसः ॥ ४५० ॥ गत्वा वनं सभवनं प्राप्तो व्याप्तो मनोवा | कदापि निर्जनं ज्ञात्वा, गौरी वासगृहं ययौ ॥ ४५१ ॥ साऽभ्युत्थाय तमायान्तं, ज्येष्ठं श्रेष्ठगुणाश्रया । विष्टरादिप्रदानेन, प्रतिपत्ति वितेनुषी ॥ ४५२ ॥ स्माह स्मेरस्मरालाएं, तं पापं सा पतिव्रता । न किं ते सुगुणक्षीरसिन्धोर्बन्धोरपि त्रपा || ४५३ ॥ तद्गिरेति स निश्चिक्ये, निवृत्तोऽस्या निवासतः । नूनं मामीहते सेयं शङ्कते किन्तु कान्ततः ।। ४५४ ॥ समामाशु समेत्यासौ, दम्भाद् भम्भामनीवदत् । तनादश्रवणादेव, मिमिलुः कोटिशो भटाः || ४५५ ॥ } For Private And Personal Use Only [ १३९

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199