Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 4
________________ षट्पुरुष ॥२॥ HH HH HEHE ICH HIEH HEH ICH IH HH समुद्भवति भाविभव्यानामपि भव्यानामिति रसप्राधान्यवोधोत्पत्तये प्रारब्धोऽयं ग्रन्थः पूर्वकालीन गीतार्थगीतानवगीतार्थसार्थ संबोधबन्धुरैः क्षेमङ्करगणिभिः षड्विधपुरुषस्त्ररूपबोधकत्वाद्यथार्थाभिधानः षट्पुरुषचरितमिति । अत्र प्रथमं षट्पुरुषाभिधानप्रस्तावदर्शनं तदनु क्रमेण षण्णामपि अधमाधम १ अधम २ विमध्यम ३ मध्यम ४ उत्तम ५ उत्तमोत्तमाना ६ स्वरूपं उपलक्षणनिश्चयाययै नामभिर्निर्देशः तादृग़ाचारतत्फलप्राप्तिप्रभृतिकं च यथाई निजगदुः । दृष्टान्तास्तावदत्र परिपाटया पुलिन्द १ मोहरति २ श्रीपति ३ जिनचन्द्र ४ महेन्द्र ५ जिनेश्वरा ६ इति । भविष्यत्यवलोकनेनैतेषां कर्मविपाकबोधात् प्रशस्तादृष्टोपायेषु प्रवृत्तिर्भव्यानामिति फलेग्रहियासो नः, श्रीमन्तः कदा कामं भूमण्डलं मण्डयामासुरिति विचारणायां पूज्यैरेव प्रशस्तौ यत् स्वस्य श्रीदेवसुन्दरसूरिचरणाम्भोजपट्पदता प्रत्यपादितेन ज्ञायते श्रीमन्तो छ्रीदेवसुन्दरपादपद्मचञ्चरीकतामाभेजाना बभूवुः । ' अथ सत्रशेखराहाः ख्याताः क्षेमङ्कराह्नाथ । गच्छेशार्ककरा इत्र दिशि दिशि निघ्नन्ति मोहनमः || ४३३ ” इति श्रीमुनिसुन्दरसूरिहृदयहिमवदुद्भूतत्रिदशतरङ्गिणीतीयश्रोतसि गुर्वावलीमहाहदे, त्रिलोकनाज्ज्ञायतेतरामेतत् यदुत - श्रीमन्तो न केवलं देवसुन्दरयुग प्रधानक्रमकजलीनाः, किंतु गच्छगगनोद्योतविधानविज्ञा अपि । श्रीदेवसुन्दरसूरिपादाय " श्रीदेवसुन्दरगणप्रभवोऽधुनेमे " ४९४ । इति गुर्वावल्याः वचनात् तस्याश्च “ रसरसमनुमितवर्षे ” इति वचनात् १४६६ वर्षेषु प्रणयनात् पञ्चदशतमे शतके तच्चरित्रत्रिलोकनाद् गुर्जरायां च विजङ्गुरिति प्रतीतेर्ग्रन्थकृतामपि तदैव तस्यामेव सत्तेति निःसंशयं प्रत्येयमाईतैः । ग्रन्थस्यास्य प्राग्जातेऽपि मुद्रणे मुल्यबाहुल्यात्प्रसाराभावोऽशुद्धताप्राचुर्य प्राकृतच्छायारहितत्वात्मस्तुतग्रन्याधिकारिणां बालानामसुगमता चेति श्रोष्ठदेवचन्द्रकोशनियुक्तैरारब्धमस्य मुद्रणं भवतु सुखाकरं सर्वभव्यानामिति समस्तसच्त्रसुखाकाङ्क्षी काङ्क्षत आनन्दसानरः । श्रीमत्पत्तननगरे मार्गशीर्ष कृष्णद्वादश्यां सोमवासरे लिखितम्. Jain Education International For Private & Personal Use Only Eff. JEI JEH JE JE JEH HEHEH चरितम् ॥२॥ www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 52