Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 8
________________ २८२ श्रीशान्तिनाथचरित्रे राज्यापहार: प्रथमं देशान्तरगतिस्ततः । परवेश्म निवासश्च तथा कष्टेन भोजनम् ॥ ६४ ॥ हा वत्स ! प्रेषितोऽस्यद्य त्वमिन्धनकते कथम् ? । आवकाभ्यामधन्याभ्यां यदद्याऽपि समेषि न ॥६५॥ तच्छ्रुत्वा ज्ञातवृत्तान्ते ते खेचावुपयतुः । तत्र देवकुले माटवरेणवं जजल्पतुः ॥ ६६ ॥ त्ववियोगार्दिते आवामिहायाते कथञ्चन । हा वत्स ! राजवत्स ! त्वमात्मानं नौ प्रदर्शय ॥ ६७ ॥ सोऽथ दध्यौ जनन्योर्मे नाऽऽगतिघंटतेऽधुना। तन्ननमते ते एव खेचर्यो माययाऽऽवते ॥ ६८ ॥ ध्यात्वेति प्रददौ धीमान् वामात्रमपि नैतयोः । उदिते च रवावेते खिन्ने स्वस्थानमीयतुः ॥ ६८ ॥ कुञ्चिकाविवरेणान्तःप्रविष्टा रविरोचिषः। विलोक्य निययो देवकुलमध्यात्कुठारिकः ॥ ७० ॥ कञ्चुकं स्थगयित्वा तं श्रीखण्डतरुकोटरे । कावाकृति ग्रहीत्वा च काष्ठं कृत्वा परं करे ॥ ७१ ॥ चचाल गेहाऽभिमुखं पुरहारगतोऽथ सः । चिक्षेप काष्ठखण्डं तत्प्रतोलीपालकस्य च ॥ ७२ ॥ (युग्मम्) यात: परिमलस्त स्योच्छलति स्म स चान्दनः । ततोऽवलोकयामास दिङ्मुखान्य खिलो जनः ॥ ७३ ॥ कुतः स्फुरति गन्धोऽयमित्यन्योन्यं जजल्प च ? । तमेधोवाहक इति हीलया पश्यति स्म सः ॥ ७४ ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 104