________________
उत्तराध्ययन ॥५३७॥
एकत्रिंशमध्ययनम्,
*गा १०-११
व्याख्या-पिण्डावग्रहप्रतिमासु आहारग्रहणविषयाभिग्रहरूपासु संसृष्टाद्यासु पूर्वोक्तासु सप्तखिति योगः, तथा भयस्थानेषु इहलोकादिषु सप्तसु, उक्तं च-"इह १ परलोआ २ दाण ३ मकम्हा ४ ऽऽजीय ५ मरण ६ मसिलोए ७ ति" यो भिक्षुर्यतते पालनाऽकरणाभ्याम् ॥९॥ मूलम्-मएसु बंभगुत्तीसु, भिक्खुधम्ममि दसविहे। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले १० ___ व्याख्या-मदेषु जातिमदादिषु अष्टसु “जाई १ कुल २ बल ३ रूवे ४ तव ५ इस्सरिए ६ सुए ७ लाभे ८ इत्येवंरूपेषु, प्रतीतत्वाचेहान्यत्र च सूत्रे संख्यानभिधानम् । ब्रह्म ब्रह्मचर्य तस्य गुप्तिषु नवसु वसत्यादिषु, यदाहुः-“वसहि १ कह २ निसिजि ३ दिअ ४ कुटुंतर ५ पुवकीलिय ६ पणीए ७ । अइमायाहार ८ विभूसणा य ९ नव बंभचेरगुत्तीओ ॥१॥" भिक्षुधर्मे दशविधे क्षान्त्यादिके, उक्तं च-"खंती १ मद्दव २ अजव ३ मुत्ती ४ तव ५ संजमे ६ अ बोधवे । सचं ७ सो ८ अकिंचणं ९ च बंभं १० च जइधम्मो ॥१॥त्ति" यो भिक्षुर्यतते परिहारादिना ॥१०॥ मूलम्-उवासगाणं पडिमासु, भिक्खूणं पडिमासु अ।जे भिक्खू जयई निच्चं, से न अच्छइ मंडले११॥ __ व्याख्या-उपासकानां श्रावकाणां प्रतिमाखभिग्रहविशेषरूपासु दर्शनादिपु एकादशसु, यदुक्तं-"दसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सचित्ते ७। आरंभ ८ पेस ९ उद्दिष्ट १० वजए समणुभूए ११ य ॥१॥"
॥५३७||