Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
उत्तराध्ययन ॥५८२॥
पञ्चत्रिंशमध्ययनम्.
गा३-५
ACA%ACEAE--
दीन् विजानीयात् , भवहेतवोऽमी इति विशेषेणावबुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेति भावः । सङ्गशब्दव्युत्पत्तिमाह-यैः सज्यन्ते प्रतिबन्धं भजन्ति मानवा उपलक्षणत्वादन्येऽपि जन्तवः ॥२॥ मूलम्-तहेव हिंसं अलिअं, चोज अब्बंभसेवणं । इच्छा कामं च लोभं च, संजओ परिवज्जए॥३॥
व्याख्या-तथेति समुच्चये, एवेति पूरणे, हिंसामलीकं चौर्यमब्रह्मसेवनं इच्छारूपः काम इच्छाकामस्तं च अप्राप्तवस्तुवाञ्छारूपं लोभं च लब्धवस्तुविषयगृद्धिरूपं अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयतः परि
वर्जयेत् ॥ ३॥ तथाहै मूलम्-मणोहरं चित्तघरं, मल्लधूवेण वासि। सकवाडं पंडरूल्लोअं, मणसावि न पत्थए ॥४॥
व्याख्या-मनोहरं मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोलोचं मनसाप्यास्तां वचसा न प्रार्थयेत् , किं पुनः तत्र तिष्ठेदिति भावः ॥ ४ ॥ किं पुनरेवमुपदिश्यते ? इत्याहमूलम्-इंदिआणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुकराई निवारे, कामरागविवड्डणे ॥५॥
व्याख्या-इन्द्रियाणि तुरिति यस्माद्भिक्षोस्तादृशे उपाश्रये दुष्कराणि करोतेः सर्वधात्वर्थव्याप्तत्वात् दुःशकानि निवारयितुं स्वस्खविषयेभ्य इति गम्यते, कामरागविवर्द्धने विषयाभिष्वङ्गपोषके इत्युपाश्रयविशेषणम् ॥५॥ तर्हि क स्थेयमित्याह
॥५८२॥

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596