Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 591
________________ ६ १२ मूलम् — इइ पाउकरे बुद्धे, नायए परिनिव्वुए। छत्तीसं उत्तरज्झाए, भवसिद्धियसंमएत्ति बेमि ॥ २६६ ॥ व्याख्या - इति एताननन्तरोक्तान् 'पाउकरेत्ति' प्रादुष्कृत्य कांश्चिदर्थतः कांश्चित्तु सूत्रतोऽपि प्रकाश्य बुद्धः | केवलज्ञानावगतसकलवस्तुतत्त्वो ज्ञातजो ज्ञातकुलोद्भवः स चेह श्रीवर्द्धमानखामी परिनिर्वृतो निर्वाणं गतः, यद्वा 'पाउकरेत्ति' प्रादुरकार्षीत् प्रकाशितवान् शेषं प्राग्वन्नवरं परिनिर्वृतः कषायादितपोपशमात्स्वस्थीभूतः । कान् प्रादुरकार्षीदित्याह - षट्त्रिंशदुत्तराः प्रधाना अध्याया अध्ययनानि उत्तराध्यायास्तान् भवसिद्धिकानां भव्यानां संमतानभिप्रेतान् । इति परिसमाप्तौ ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ २६६ ॥ इति पत्रिंशमध्ययनम् ॥ ३६ ॥ धर्मकल्पद्रुम स्कन्धस्यास्य श्रुतस्कन्धस्य नियुक्तिकारोऽप्येवं माहात्म्यमाह - मूलम् — जे किर भवसिद्धिआ, परित्तसंसारिआ य जे भव्वा । ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥१॥ व्याख्या - अत्र 'भवत्ति' भव्या आसन्नाक्षिप्तसिद्धयो रत्नत्रयाराधका भिन्नग्रन्थय इत्यर्थः भवसिद्धिकशब्दस्तु सामान्येन भव्यत्वार्थः ॥ १ ॥ मूलम् —जे हुंति अभवसिद्धि, गंठिअसत्ता अनंतसंसारी । ते संकिलिहकम्मा, अभविआ उत्तरज्झाए ॥२॥ व्याख्या – 'गंटिअसत्तत्ति' ग्रन्थिकसत्त्वा अभिन्नग्रन्थय इत्यर्थः ॥ 'अभविअत्ति' अभव्या अयोग्या उत्तराध्याये उत्तराध्ययनपठने ॥ २ ॥ ततः किं कार्यमित्याह - षट्त्रिंशमध्ययनम्. गा २६६

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596