Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
उत्तराध्ययन
॥ ६१३॥
१५
१८
२१
२४
धिनोरपि सतोः । तथा समुचये, चः पूरणे, निमित्तमतीतादि तद्विषये भवति प्रतिसेवी अपुष्टालम्बनेऽपि तद्भाषणात्, एताभ्यां कारणाभ्यां आसुरी भावनां करोति ॥ २६४ ॥ तथा
मूलम् — सत्थग्गहणं विसभक्खणं च जलणं च जलप्पवेसो अ । अणायारभंड सेवा जम्मणमरणाणि बंधंति ॥ २६५ ॥
व्याख्या —— शस्त्रस्य ग्रहणं वधार्थमात्मनि व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुचये, ज्वलनं च दीपनमात्मन इति शेषः, जलप्रवेशश्च चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः । आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणं आचारभाण्डं न तथा अनाचारभाण्डं तस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा च, चस्यगम्यत्वादेतानि कुर्वन्तो जन्ममरणानि उपचारात्तन्निमित्तकर्माणि वनन्ति, संक्लेशहेतुतया शस्त्रग्रहणादीनामनन्तभव - निबन्धनत्वात् । अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता तथा चेहार्थतो मोही भावनोक्ता । यतस्तलक्षणमिदं - "उम्मग्गदेसओ मग्गनासओ मग्गविपडिवत्ती अ । मोहेण य मोहित्ता समोहणं भावणं कुणइ ॥ १ ॥” फलं चा सामनन्तरं परम्परं चैवं - " एयाओ भावणाओ, भावित्ता देवदुग्गइं जंति । तत्तो अ चुआ संता, पडंति भवसागरमणंतं ॥ १ ॥ " इहानन्तरं फलं देवदुर्गतिगमनं परम्परं तु भवान्धिभ्रमणमिति सूत्रार्थः ॥ २६५ ॥ संप्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाह —
पटत्रिंशनध्ययनम्. (३६) गा २६५
॥६१३॥

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596