Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
पत्रिंशमध्ययनम्. गा १९४१९५
व्याख्या-इह संमूछिममनुष्या ये मनोरहिता गर्भजमनुष्यसम्बन्धिवान्तादिपूत्पत्तिभाजोऽन्तर्महायषोऽप- मर्याप्सा एव म्रियन्ते ते ज्ञेयाः ॥ १९३॥
मूलम्-गब्भवतिआ जे उ, तिविहा ते विआहिआ। अकम्मकम्मभूमा य,अंतरद्दीवया तहा ।१९४।। ___ व्याख्या-अकम्मेत्यादि-अत्र भूमशब्दस्य प्रत्येकं सम्बन्धादाकर्मभूमास्तत्र कर्माणि कृषिवाणिज्यादीनि न सन्ति यासु ता अकर्मभूमयो हैमवतादिक्षेत्राणि तत्र भवा आकर्मभूमा युगलिनः, एवं कार्मभूमा भरतादिक्षेत्रजाः, अन्तरमिह समुद्रमध्यं तत्र द्वीपा अन्तरद्वीपाः तेषु जाता अन्तरद्वीपजाः ॥ १९४ ॥ मूलम्-पण्णरस तिसई विहा,भेआ य अहवीसई ।संखा उ कमसो तेसिं,इइ एसा विआहिआ।१९५॥ . व्याख्या-पण्णरस तीसई विहत्ति' विधशब्दस्य प्रत्येकं योगात् पञ्चदशविधाः कार्मभूमाः, कर्मभूमीनां भरतैरवतविदेहानां त्रयाणां प्रत्येकं पञ्चसंख्यत्वात् । त्रिंशद्विधा आकर्मभूमाः, हैमवत-हरिवर्ष-रम्यकवर्ष-हैरण्यवत-देवकुरूत्तरकुरूणां षण्णामकर्मभूमानां प्रत्येकं पञ्चसंख्यत्वात् । इह च क्रमत इत्युक्तेऽपि पश्चानिर्दिष्टानामपि कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यात् पूर्व भेदाभिधानम् । अन्ये तु 'तीसई पण्णरसविहत्ति' पठन्ति । भेदाश्चाष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बध्यते, अष्टाविंशतिसंख्यत्वं चैषामेतत्संख्यत्वादन्तरद्वीपानां, ते

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596