Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
पत्रिंश
मध्ययनम्. गा२५७२५८
मूलम्-मिच्छादसणरत्ता, सनिआणा कण्हलेसमोगाढा ।
इअ जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥ २५७ ॥ व्याख्या-स्पष्टम् , ननु पुनरुक्तत्वादनर्थकमिदं सूत्रं, नैवं विशेषज्ञापकत्वादस्य, विशेषश्चायं-तादृशे संक्लेशे सत्येव दुर्लभबोधित्वं, सामान्येन तु पूर्वोक्तविशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिलाभो दृश्यतेऽपीति विशेषसूचकत्वादस्य न पौनरुक्त्यम् । इह चायेन सूत्रेण कन्दर्पादिभावनानां दुर्गतिरूपानर्थस्य हेतुत्वमुक्तं, अर्थाच्छुभभावनानां च सुगतिरूपार्थस्य । द्वितीयेन मिथ्यात्वरक्तादीनां दुर्लभबोधित्वमनर्थ उक्तः, तृतीयेन सम्यक्त्वरक्तानां सुलभबोधित्वं शुभार्थः, चतुर्थेन तूक्तरूपो विशेषः सूचित इति सूत्रचतुष्कार्थः ॥ २५७ ॥ जिनवचनाराधनमूलमेव संलेखनादि श्रेयस्ततोऽन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह
मूलम्-जिणवयणे अणुरत्ता, जिणवयणं जे करिति भावेणं ।
___अमला असंकिलिट्टा, ते होंति परित्तसंसारी ॥ २५८ ॥ ___ व्याख्या-'अमलत्ति' श्रद्धामालिन्यहेतुमिथ्यात्वादिभावमलरहिताः, तथाऽसंक्लिष्टा रागादिसंक्लेशमुक्ताः 'परि१२त्तसंसारित्ति' परित्तः परिमितः स चासौ ससारश्च परित्तसंसारः सोऽस्ति येषां ते परित्तसंसारिणः ॥ २५८ ॥

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596