Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
उत्तराध्ययन
॥६११॥
१५
१८
२१
२४
मूलम् - बालमरणाणि बहुसो, अकाममरणाणि चैव बहुआणि । मरिहंति ते वराया, जिणवयणं जे न याति ॥ २५९ ॥
व्याख्या– बालमरणैरुद्बन्धनादिनिबन्धनैर्बहुशो बहुवारं अकाममरणैश्चैवानिच्छारूपमरणैर्बहुभिः सुब्व्यत्ययः प्राकृतत्वात् मरिष्यन्ति ते वराका जिनवचनं ये न जानन्ति, उपलक्षणत्वान्नानुतिष्ठन्ति चेति सूत्रद्वयार्थः ॥ २५९ ॥ यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यं, तत्र चातिचारसम्भवे आलोचना तच्छ्रवणयोग्यानां श्रावणीया, ते च | यैर्हेतुभिर्भवन्ति तानाह -
मूलम् — बहु आगमविण्णाणा, समाहिउप्पायगा य गुणगा ही। एएण कारणेणं, अरिहा आलोअणं सोउं ॥
व्याख्या—बहुः सूत्रतोऽर्थतश्च स चासावागमश्च बह्वागमस्तत्र विशिष्टं ज्ञानं येषां ते बह्वागमविज्ञानाः, समाधे| रुत्पादका ये देशकालाभिप्रायादिविज्ञतया समाधिमेव मधुरवाक्यादिभिरालोचकानामुत्पादयन्ति चशब्दो भिन्नक्रमस्ततो गुणग्राहिणश्चोपबृंहणार्थं परेषां सद्भूतगुणग्रहणशीलाश्च, 'एएण कारणेणंति' एतैः कारणैः अर्हा भवन्त्या - | चार्यादय आलोचनां श्रोतुमिति सूत्रार्थः ॥ २६० ॥ इत्थमनशनस्थेन यत्कृत्यं तदुपदर्श्य सम्प्रति पूर्वोद्दिष्टकन्दर्पादिभावनानां खरूपमाह -
षट्त्रिंशमध्ययनम्. (३६)
गा २५९२६०
॥६११॥

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596