Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 584
________________ उत्तराध्ययन ॥६१०॥ त्रिंशमध्ययनम् |गा २५४ २५६ RAMERASARAS भविस्सइत्ति, तस्स य विसंवाए नो सम्म नमुक्कारमाराहेइ" इति सूत्रषट्कार्थः ॥ २५३ ॥ इत्थं प्रपन्नानशनस्याप्यशुभभावनानां मिथ्यात्वादीनां चानर्थहेतुत्वं तद्विपर्ययाणां च शुभहेतुतामाह मूलम्--कंदप्पमाभिओगं च, किविसि मोहमासुरत्तं च । एयाओ दुग्गईओ, मरणम्मि विराहया इंति ॥ २५४ ॥ व्याख्या-'कंदप्पंति' कन्दर्पभावना एवमाभियोग्यभावना किल्विषभावना मोहभावनों आसुरभावना च, एता भावना दुर्गतिहेतुत्वात् दुर्गतय एतद्विधातृणां दुर्गतिरूपेषु तथाविधदेवनिकायेष्वेवोत्पादात्, मरणे मरणकाले विराधिका भवन्ति सम्यग्दर्शनादीनामिति गम्यते, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामपि प्रान्तकाले शुभभावनाभावे सुगतिरपि स्यादिति सूचनार्थम् ॥ २५४ ॥ मूलम्-मिच्छादसणरत्ता, सनिआणा हु हिंसगा। इइ जे मरंति जीवा,तेसिं पुण दुल्लहा बोही॥२५५॥ __ व्याख्या-मिथ्यादर्शनमतत्त्वे तत्त्वाभिनिवेशस्तत्र रक्ता आसक्ता मिथ्यादर्शनरक्ताः सनिदानाः कृतभोगप्रार्थनाः हुः पूतौ हिंसका जीवोपमईकारिण इतीत्येवंरूपा ये नियन्ते जीवास्तेषां पुनर्दुर्लभा बोधिर्जिनधर्मावाप्तिः ॥ २५५॥ मूलम् सम्मदसणरत्ता, अनिआणा सुक्कलेसमोगाढा।इइ जे मरंति जीवा, सुलभा तेसिं भवे बोही॥ व्याख्या-"मुकलेसमोगाढत्ति" शुक्ललेश्यामवगाढाः प्रविष्टाः ॥ २५६ ॥ |॥६१०॥

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596