Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 548
________________ उत्तराध्ययन ॥५९२॥ १५ १८ २१ २४ मूलम् - अलोए पडिहया सिद्धा, लोअग्गे अ पइट्ठिआ । इहं बोंदिं चइत्ता णं, तत्थ गंतूण सिज्झइ । ५६ । व्याख्या - अलोके केवलाकाशरूपे प्रतिहताः सिद्धाः, तत्र धर्मास्तिकायाभावेन तेषां गतेरभावात्, लोकाग्रे च प्रतिष्ठिताः सदावस्थिताः, ननु तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाग्रे तदवस्थानं ? उच्यते - अधस्तिर्यग्गत्योः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं - “अधस्तिर्यगथोर्द्ध च, जीवानां कर्मजा गतिः । ऊर्द्धमेव तु ताद्धर्म्या-द्भवति क्षीणकर्मणाम् ॥ १ ॥ " इह तिर्यग्लोकादौ वोन्दिं वपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्समये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च " मुखं व्यादाय खपिति " इत्यादिवदिहापि क्त्वाप्रत्ययस्य समानकाल एव प्रयोगादिति सूत्रत्रयर्थः ॥ ५६ ॥ लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं चेपत्प्राग्भाराया उपरीति तत्स्वरूपं सिद्धखरूपं चाह मूलम् - बारसहिं जोअणेहिं, सङ्घट्टस्सुवरिं भवे । इसीपब्भारनामा उ, पुढवी छत्तसंठिआ ॥ ५७ ॥ व्याख्या - द्वादशभिर्योजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत्, ईपत्प्राग्भारेति नाम यस्याः सा ईषत्प्राग्भारनामा, तुः पूत, पृथिवी । छत्रसंस्थिता छत्राकारा ॥ ५७ ॥ मूलम् - पणयालसयसहस्सा, जोअणाणं तु आयया । तावइअं चेव विच्छिण्णा, तिगुणो तस्सेव परिरओ +4 पटूत्रिंशमध्ययनम्. (३६) गा ५६-५८ ॥५९२॥

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596