________________
उत्तराध्ययन ॥५९२॥
१५
१८
२१
२४
मूलम् - अलोए पडिहया सिद्धा, लोअग्गे अ पइट्ठिआ । इहं बोंदिं चइत्ता णं, तत्थ गंतूण सिज्झइ । ५६ । व्याख्या - अलोके केवलाकाशरूपे प्रतिहताः सिद्धाः, तत्र धर्मास्तिकायाभावेन तेषां गतेरभावात्, लोकाग्रे च प्रतिष्ठिताः सदावस्थिताः, ननु तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाग्रे तदवस्थानं ? उच्यते - अधस्तिर्यग्गत्योः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं - “अधस्तिर्यगथोर्द्ध च, जीवानां कर्मजा गतिः । ऊर्द्धमेव तु ताद्धर्म्या-द्भवति क्षीणकर्मणाम् ॥ १ ॥ " इह तिर्यग्लोकादौ वोन्दिं वपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्समये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च " मुखं व्यादाय खपिति " इत्यादिवदिहापि क्त्वाप्रत्ययस्य समानकाल एव प्रयोगादिति सूत्रत्रयर्थः ॥ ५६ ॥ लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं चेपत्प्राग्भाराया उपरीति तत्स्वरूपं सिद्धखरूपं चाह
मूलम् - बारसहिं जोअणेहिं, सङ्घट्टस्सुवरिं भवे । इसीपब्भारनामा उ, पुढवी छत्तसंठिआ ॥ ५७ ॥
व्याख्या - द्वादशभिर्योजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत्, ईपत्प्राग्भारेति नाम यस्याः सा ईषत्प्राग्भारनामा, तुः पूत, पृथिवी । छत्रसंस्थिता छत्राकारा ॥ ५७ ॥
मूलम् - पणयालसयसहस्सा, जोअणाणं तु आयया । तावइअं चेव विच्छिण्णा, तिगुणो तस्सेव परिरओ
+4
पटूत्रिंशमध्ययनम्. (३६) गा ५६-५८
॥५९२॥