________________
६
९
१२
व्याख्या - पञ्चचत्वारिंशत् शतसहस्राणि लक्षाणि योजनानां तुः पूत आयता दीर्घा, 'तावइअं चैवत्ति' तावतश्चैव शतसहस्रान् विस्तीर्णा, त्रिगुणः 'तस्सेवत्ति' तस्मादायामात्परिरयः परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेपाधिक्यं द्रष्टव्यम् । परिश्यमानं चैवं - "एगा जोअणकोडि, बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया अउणपण्णति ॥ १ ॥ ५८ ॥
| मूलम् - अट्ठजोअणवा हल्ला, सा मज्झमि विआहिआ। परिहायंती चरिमंते, मच्छिपत्ताओ तणुअतरी ५९ व्याख्या -- अष्टयोजनबाहल्या सा मध्ये मध्यप्रदेशे व्याख्याता, ततः परि समन्तात् हीयमाना 'चरिमंतेत्ति' चरमान्तेषु सकलदिग्वर्त्तिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा । हानिश्चात्र प्रतियोजनमङ्गुलपृथक्त्वस्य ज्ञेया ॥ ५९ ॥
मूलम् - अज्जुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं । उत्ताणगछत्तसंठिआय, भणिआ जिणवरेहिं व्याख्या- अर्जुन सुवर्णकमयी शुक्लकनकमयी सा पृथ्वी निर्मला स्वभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता । पूर्व छत्रसंस्थितेति सामान्येनोक्तं, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ॥ ६० ॥
मूलम् — संखंककुंद संकासा, पंडुरा निम्मला सुभा । सीआए जोअणे तत्तो, लोअंतो उ विआहिओ ॥ ६१॥
पत्रिंशमध्ययनम्. गा ५९-६१