SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५९३॥ 36*********SUSSES व्याख्या-पूर्वार्द्ध स्पष्टं, 'सीआएत्ति' शीतायाः शीताभिधायाः पृथ्व्या उपरीति शेषः, योजने उत्सेधांगुलनि-1 षट्त्रिंशपन्ने इति गम्यं, तत इति तस्या लोकान्तस्तुः पूत्तौं व्याख्यातः ॥ ६१॥ ननु यदि योजने लोकान्तस्तर्हि किंमध्ययनम् . तत्र योजने सर्वत्र सिद्धाः सन्ति उत नेत्याह गा ६२-६४ मूलम्-जोअणस्स उ जो तस्स, कोसो उवरिमोभवे। तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे॥ | व्याख्या-योजनस्य तु यस्तस्य क्रोश 'उवरिमोत्ति' उपरिवर्ती भवेत् तस्य क्रोशस्य षडूभागे द्वात्रिंशदलत्रयस्त्रिंशद्धनुरधिकधनुःशतत्रयरूपे सिद्धानामवगाहना भवेत् ॥ ६२ ॥ अवगाहना च चलनसम्भवेऽपि स्थादित्याहमूलम्-तत्थ सिद्धा महाभागा, लोगग्गंमि पइहिआ।भवप्पवंचउम्मुक्का, सिद्धिं वरगइं गया ॥ ६३॥ ___ व्याख्या-तत्र योजनपडूभागे सिद्धा महाभागा अतिशयाचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः, एतच्च कुतः? इत्याहभवा नारकादिभवास्तेषां प्रपञ्चो विस्तारस्तेनोन्मुक्ताः सिद्धिं वरगतिं गताः । अयं भावो भवप्रपञ्च एव चलने हेतुः | स च सिद्धानां नास्तीति कुतः तेषां चलनमिति ॥ ६३ ॥ सिद्धानामवगाहनामाह ॥५९३॥ मूलम्-उस्सेहो जस्स जो होइ, भवम्मि चरिमम्मि।तिभागहीणा तत्तो अ, सिद्धाणोगाहणाभवे६४ व्याख्या-उत्सेध उच्छूयः प्रक्रमाद्देहस्य 'जस्सत्ति' येषां सिद्धानां य इति यत्परिमाणो भवति भवे चरमे पर्य-18
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy