________________
SREC5AGAROCCOCOLA5
न्त वर्तिनि तः प्रत्तौ ततश्चरमभवोत्सेधात्रिभागहीना सिद्धानां यत्तदोर्नित्याभिसम्बन्धात् तेषामवगाहना भवेत् । त्रिभागस्य शरीरान्तर्विवरपूरणेन कृतार्थत्वात् ॥ ६४ ॥ एतानेव कालतो निरूपयितुमाह
मध्ययनम्.
गा६५-६७ मूलम्-एगत्तेणं साईआ, अपज्जवसिआवि अ । पुहत्तेण अणाईआ, अपज्जवसिआवि अ॥६५॥ । व्याख्या-एकत्वेन सादिकाः अपर्यवसिता अपि च, यत्र काले ते सिध्यन्ति तत्र तेषामादिः न च कदाचिन्मुक्तेभ्रंश्यन्तीति न पर्यवसानं । पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेत्यर्थः अनादिका अपर्यवसिता अपि च, न हि ते कदाचिन्नाभूवन्न भवन्ति न भविष्यन्ति चेति भावः ॥ ६५ ॥ एषामेव खरूपमाहमूलम्-अरूविणो जीवघणा, नाणदसणसन्निआ।अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ॥६६॥ ___ व्याख्या-अरूपिणो रूपरसादिरहिताः, जीवाश्च ते सततोपयुक्ततया घनाश्च शुषिरपूरणनिचितप्रदेशतया जीवघनाः, ज्ञानदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगानन्यखरूपा इत्यर्थः । अतुलं असमं सुखं संप्राप्ताः, उपमा यस्य सुखस्य नास्ति तुः पूत्तौ ॥ ६६ ॥ उक्तग्रन्थे ज्ञातमपि विप्रतिपत्तिनिरासाय क्षेत्रं वरूपं च तेषामाहमूलम्-लोएगदेसे ते सत्वे, नाणदंसणसन्निआ। संसारपारनित्थिण्णा, सिद्धिं वरगई गया ॥६७॥