________________
उत्तराध्ययन ॥५९४॥
षट्त्रिंशमध्ययनम्.
64
गा ६८-७०
-656
व्याख्या-लोकैकदेशे ते सर्वे इत्येनन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तं, ज्ञानदर्शनसंज्ञिता इत्यनेन ज्ञानोच्छेदे मुक्तिरिति मतं निरस्तं, संसारपारं निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येन अतिक्रान्ताः, अनेन तु "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ १॥” इति मतमपाकृतं, सिद्धिं वरगतिं गता अनेन क्षीणकर्मणोऽपि खभावेनैवोत्पत्तिसमये लोकाग्रगमनं यावत्सक्रियत्वमप्यस्तीति ख्या| प्यते, इत्येकादशसूत्राथेंः ॥ ६७ ॥ इत्थं सिद्धानुक्त्वा संसारस्थानाह
मूलम्-संसारत्था उजे जीवा, दुविहा ते विआहिआ। तसा य थावरा चेव, थावरा तिविहा तहिं॥६॥ ____ व्याख्या-स्पष्टं ॥ ६८॥ त्रैविध्यमेवाह
मूलम्-पुढवी आउ जीवा य,तहेव य वणस्सई । इच्चेते थावरा तिविहा, तेसिं भेए सुह मे ॥६९॥ | व्याख्या स्पष्टम् , नवरं इह तेजोवाय्बोर्गतित्रसत्वेन स्थावरमध्येऽनभिधानम् ॥ ६९ ॥ पृथिवीकायिकानाहमूलम्-दुविहा पुढवीजीवा उ, सुहुमा बायरा तहा । पजत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ ७० ॥
व्याख्या-द्विविधाः पृथिवीजीवास्तु सूक्ष्माः सूक्ष्मनामकर्मोदयात्, बादरा बादरनामकर्मोदयात् , 'पजत्तमपज*त्तत्ति' आहारशरीरेन्द्रियोच्छासवाग्मनोनिष्पत्तिहेतुदलिकं पयोप्तिस्तद्वन्तः पर्याप्ताः, तद्विपरीता अपर्याप्ताः, एव
मेते सूक्ष्मा बादराश्च प्रत्येकं द्विधा पुनः ॥ ७० ॥ पुनरेपामेवोत्तरभेदानाह
2964
***
॥५९४॥
1-54-CE