SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५८२॥ पञ्चत्रिंशमध्ययनम्. गा३-५ ACA%ACEAE-- दीन् विजानीयात् , भवहेतवोऽमी इति विशेषेणावबुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेति भावः । सङ्गशब्दव्युत्पत्तिमाह-यैः सज्यन्ते प्रतिबन्धं भजन्ति मानवा उपलक्षणत्वादन्येऽपि जन्तवः ॥२॥ मूलम्-तहेव हिंसं अलिअं, चोज अब्बंभसेवणं । इच्छा कामं च लोभं च, संजओ परिवज्जए॥३॥ व्याख्या-तथेति समुच्चये, एवेति पूरणे, हिंसामलीकं चौर्यमब्रह्मसेवनं इच्छारूपः काम इच्छाकामस्तं च अप्राप्तवस्तुवाञ्छारूपं लोभं च लब्धवस्तुविषयगृद्धिरूपं अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयतः परि वर्जयेत् ॥ ३॥ तथाहै मूलम्-मणोहरं चित्तघरं, मल्लधूवेण वासि। सकवाडं पंडरूल्लोअं, मणसावि न पत्थए ॥४॥ व्याख्या-मनोहरं मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोलोचं मनसाप्यास्तां वचसा न प्रार्थयेत् , किं पुनः तत्र तिष्ठेदिति भावः ॥ ४ ॥ किं पुनरेवमुपदिश्यते ? इत्याहमूलम्-इंदिआणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुकराई निवारे, कामरागविवड्डणे ॥५॥ व्याख्या-इन्द्रियाणि तुरिति यस्माद्भिक्षोस्तादृशे उपाश्रये दुष्कराणि करोतेः सर्वधात्वर्थव्याप्तत्वात् दुःशकानि निवारयितुं स्वस्खविषयेभ्य इति गम्यते, कामरागविवर्द्धने विषयाभिष्वङ्गपोषके इत्युपाश्रयविशेषणम् ॥५॥ तर्हि क स्थेयमित्याह ॥५८२॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy