________________
T
| पञ्चत्रिंश
मध्ययनम् द्रा गा ६-८
RALIA
मूलम्-सुसाणे सुन्नगारे वा, रुक्खमूले वा एगगो। पइरिके परकडे वा, वासं तत्थाभिरोअए ॥६॥ ___ व्याख्या-श्मशाने शून्यागारे वा वृक्षमूले वा एकको रागादिवियुक्तोऽसहायो वा प्रतिरिक्ते ख्याद्यसङ्कले परकते परैर्निष्पादिते स्वार्थमिति शेषः, वा समुच्चये, वासमवस्थानं तत्र श्मशानादौ अभिरोचयेद्भिक्षुरिति योगः ॥६॥ मूलम्-फासुअंमि अणाबाहे, इत्थीहिं अणभिद्दए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥७॥
व्याख्या-प्रासुके अचित्तीभूतभूभागे अनाबाधे कस्याप्यावाधारहिते स्त्रीभिरुपलक्षणत्वात् पण्डकादिभिश्च अनभिद्रुतेऽदूषिते, तत्र प्रागुक्तविशेषणे श्मशानादौ सङ्कल्पयेत्कुर्याद्वासं भिक्षुः, परमो मोक्षस्तदर्थं संयतः परमसंयतः । प्राग् वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव कश्चित्तुष्यदिति तत्र सङ्कल्पयेद्वासमित्युक्तम् ॥ ७॥ ननु ? किमिह परकृत इति विशेषणमुक्तमित्याशंक्याहमूलम्-न सयं गिहाई कुविजा, नेव अन्नेहिं कारवे । गिहकम्मसमारंभे, भूआणं दिस्सए वहो ॥८॥ __ व्याख्या-न स्वयं गृहाणि कुर्वीत नैवान्यैः कारयेदुपलक्षणत्वान्नापि कुर्वन्तमन्यमनुमन्येत, किमिति यतो गृहदू कर्म इष्टकामृदानयनादि तस्य समारम्भः प्रवर्तनं गृहकर्मसमारम्भः तस्मिन् भूतानां प्राणिनां दृश्यते वधः ॥ ८॥
कतरेषामित्याह
१२