________________
उत्तराध्ययन ॥५८३॥
१५
१८
२१
२४
मूलम्-तसाणं थावराणं च, सुहुमाणं बायराण य। गिहकम्मसमारंभ, संजओ परिवज्जए ॥ ९ ॥ व्याख्या - त्रसाणां स्थावराणां सूक्ष्माणां शरीरापेक्षया बादराणां च तथैव तस्माद्गृहकर्मसमारम्भं संयतः परिवर्जयेत् ॥ ९ ॥ अन्यच्च -
मूलम् — तहेव भत्तपाणेसु, पयणपयावणेसु अ । पाणभूयदयट्ठाए, न पए न पयावए ॥ १० ॥ व्याख्या - तथैवेति प्राग्वदेव भक्तपानेषु पचनपाचनेषु च बधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किमि - त्याह- प्राणाखसा भूतानि पृथिव्यादीनि तद्दयार्थ न पचेत् न पाचयेत् ॥ १० ॥ अमुमेवार्थ स्पष्टतरमाह| मूलम् - जलधन्ननिस्सिआ पाणा, पुढविकट्ठनिस्सिआ । हम्मंति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥
व्याख्या - जले धान्ये च निश्रिता ये तत्रान्यत्र वा उत्पद्य तन्निश्रया स्थितास्ते जलधान्यनिश्रिताः पूतरकेलिकापिपीलिकादयो जीवा एवं पृथ्वीकाष्ठनिश्रिताः, हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानेषु यत एवं तस्मात् भिक्षुर्न पाचयेत्, अपेर्गम्यत्वान्न पाचयेदपि कथं पुनः स्वयं पचेत् ? अनुमतिनिषेधोपलक्षणं चैतत् ॥११॥ तथामूलम् — विसप्पे सबओ धारे, बहुपाणिविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोई न दीवए ॥ १२ व्याख्या - विसर्पति खल्पमपि बहु व्याप्नोतीति विसर्प, सर्वतो धारं सर्वदिस्थितजीवोपघातकत्वात्, अत
पञ्चत्रिंशमध्ययनम्.
(84)
गा ९-१२
॥५८३ ॥