SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ | पश्चत्रिंशमध्ययनम्. गा१३-१५ एवं बहुप्राणिविनाशनं नास्ति ज्योतिःसमं वह्नितुल्यं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥१२॥ ननु ? पचनादौ जीववधः स्यान्न तु क्रयविक्रययोस्ततो युक्त एवाभ्यां निर्वाह इति कस्यचिदाशङ्का स्यादिति तदपोहार्थमाहमूलम्-हिरण्णं जायरूवं च, मणसावि न पत्थए । समलेटुकंचणे भिक्खू , विरए कयविक्कए॥१३॥ ___ व्याख्या-हिरण्यं कनकं, जातरूपं च रूप्यं, चकारोऽनुक्ताशेषधनधान्यादिसमुच्चये, मनसापि न प्रार्थयेद्भिक्षुरिति योगः, कीदृशः सन् ? समे प्रतिबन्धाभावात्तुल्ये लेष्टुकाञ्चने यस्य स समलेष्टुकाञ्चनो भिक्षुः विरतो निवृत्तः क्रयविक्रये क्रयविक्रयविषये ॥ १३ ॥ कुत एवमित्याहमूलम्-किणंतो कइओ होइ, विकिणंतो अ वाणिओ। कयविकयंमि वदंतो, भिक्खू न हवइ तारिसो व्याख्या-क्रीणन् परकीयं वस्तु मूल्यनाददानः क्रायको भवति, तथाविधतरलोकसदृश एव स्यात्, विक्रीणानश्च स्वकीयं च वस्तु परस्य ददद्वणिग् भवति, वाणिज्यप्रवृत्तत्वादिति भावः । अत एव क्रयविक्रये वर्तमानः प्रवर्त्तमानो भिक्षुर्न भवति तादृशो यादृशः समयेऽभिहितः ॥ १४ ॥ ततः किं कार्यमित्याहमूलम्-भिक्खिअवंन केअवं,भिक्खुणा भिक्खवत्तिणा । कयविक्कओ महादोसो, भिक्खावित्ती सुहावहा
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy