________________
॥ अथ पश्चत्रिंशमध्ययनम् ॥
18| पञ्चत्रिंश
मध्ययनम्.
|गा १-२ अहम् ॥ उक्तं चतुस्विंशमध्ययनमथानगारमार्गगत्याख्यं पञ्चत्रिंशमारभ्यते, अस्य चायं सम्बन्धः-इहानन्तराध्ययनेऽप्रशस्ता लेश्यास्त्यक्त्वा प्रशस्ता एवाश्रयणीया इत्युक्तं, तच गुणवता भिक्षुणा सम्यकर्तुं शक्यमिति इह तद्गुणा उच्यन्त इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-सुणेह मेगग्गमणा, मग्गं बुद्धेहिं देसिअं। जमायरंतो भिक्खू , दुक्खाणंतकरो भवे ॥१॥ ___ व्याख्या-शृणुत मे वदत इति शेषः, हे शिष्याः ! यूयं एकाग्रमनसोऽनन्यचित्ताः, किं तदित्याह-मार्ग मुक्तेरिति प्रक्रमः, बुद्धरहंदाद्यैर्देशितं, यमाचरन्नासेवमानो भिक्षुः दुःखानामन्तकरो भवेत्सकलकर्मनिर्मूलनादिति भावः |॥ १॥ प्रतिज्ञातमेवाहमूलम्-गिहवासं परिच्चज्ज, पवजं अस्सिए मुणी। इमे संगे विआणेज्जा, जेहिं सज्जति माणवा ॥२॥ व्याख्या-गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः इमान् प्रतिप्राणिप्रतीतत्वेन प्रत्यक्षान् सङ्गान् पुत्रकलत्रा