________________
उत्तराध्ययन ॥५६॥
त्रयस्त्रिंश
गा १४
तत्रोत्तरभेदैः शुभनाम्नोऽनन्तभेदत्वेपि मध्यमविवक्षया सप्तत्रिंशद्भेदा यथा-नर १ देवगती २ पञ्चेन्द्रियजातिः ३| शरीरपञ्चकं ८ आद्यशरीरत्रयस्याङ्गोपाङ्गत्रयं ११ प्रशस्तं वर्णादिचतुष्कं १५ प्रथमं संस्थानं १६ संहननं च १७|| मनुष्य १८ देवानुपूयौं १९ अगुरुलघु २० पराघातं २१ उच्छासं २२ आतपो २३ द्योती २४ प्रशस्तविहायोगतिः २५ त्रस २६ बादर २७ पर्याप्त २८ प्रत्येक २९ स्थिर ३० शुभ ३१ सुभग ३२ सुखरा ३३ देय ३४ यशांसि ३५ निर्माणं ३६ तीर्थकरनाम ३७ चेति । एताश्च शुभानुभावत्वाच्छुभाः । तथा अशुभनाम्नोपि मध्यमविवक्षया चतुस्त्रिंशद्भेदास्तथाहि-नरक १ तिर्यग्गती २ एकेन्द्रियादिजातिचतुष्कं ६ प्रथमवर्जानि संहनानि पञ्च ११ संस्थानान्यपि प्रथमवर्जानि पञ्चैव १६ अप्रशस्तं वर्णादिचतुष्कं २० नरक २१ तिर्यगानुपूव्यौँ २२ उपघातः २३ अप्रशस्तविहायोगतिः २४ त्रसदशकविपर्यस्तं स्थावरदशकं ३४ । एतानि चाशुभानां नारकत्वादीना हेतुत्वादशुभानि । अत्र बन्धनसंघातनानि शरीरेभ्यो वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग् न विवक्ष्यन्ते इति नोक्तसंख्याविरोधः ॥ मूलम् -गोअकम्मं दुविहं, उच्चं नीअं च आहिअं । उच्चं अट्टविहं होइ, एवं नीअंपि आहिअं॥१४॥ ____ व्याख्या-गोत्रकर्म द्विविधं, उचमिक्ष्वाकुवंशादिव्यपदेशहेतु, नीचं तद्विपरीतमाख्यातं । तत्रोचमुच्चैर्गोत्रमष्ट-| विधं भवति, एवमष्टविधं नीचमप्याख्यातं । अष्टविधत्वं चानयोबन्धहेतूनामष्टविधत्वात् । अष्टौ हि जातिमदाभावादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्येति ॥ १४ ॥
॥५६८॥