________________
एकत्रिंशमध्ययनम्, |गा १४
दिविपये, सप्तदशसंख्यात्वं चास्य तद्विपक्षस्य संयमस्य सप्तदशभेदत्वात् , यदाहुः-"पुढवि १ दग २ अगणि ३ मारुय। ४. वणस्सइ ५ बि ६ ति ७ चउ ८ पणिदि ९ अज्जीवे १०। पेहु ११ प्पेह १२ पमजण १३, परिठ्ठवण १४ मणो १५ वई १६ काए १७॥१॥" पृथिव्यादीनां संघट्टादिपरिहारेण नवधा संयमः९, अजीवसंयमस्तु अजीवानां सत्त्वोपमईहेतूनां पुस्तकपञ्चक-तृणपञ्चकादीनामुत्सर्गेणाऽग्रहणरूपः, अपवादतस्तु ग्रहणेप्येषां यतनया व्यापारणरूपः॥ ॥ १०॥ प्रेक्षासंयमश्चक्षुपा वीक्ष्य यत्कार्यकरणं ॥ ११॥ उपेक्षासंयमो द्विधा साधुगृहिविषये नोदनाऽनोदनात्मकः ॥ १२॥ प्रमार्जनासंयमः सागारिकसमक्षं पादौ न प्रमार्टि, तदभावे तु प्रमार्जयतीत्यादिकः ॥१३॥ परिष्ठापनासंयमो विधिना दोषदुष्टाहारविणमूत्रादिपरिष्ठापनं कुर्वतः ॥ १४ ॥ मनःसंयमोऽकुशलस्य मनसो निरोधः कुशलस्य तस्योदीरणम् ॥ १५ ॥ एवं वाक्संयमोऽपि ॥ १६ ॥ कायसंयमः सति कार्ये उपयोगवता गमनागमनादिकार्य, तदभावे संलीनकरचरणन भाव्यम् ॥ १७ ॥ यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानादन्यत्र तु परित्यागात् ॥ १३॥
मूलम्-बंभंमि नायज्झयणेसु, ठाणेसु असमाहिए।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १४ ॥ व्याख्या-ब्रह्मणि ब्रह्मचर्येऽष्टादशप्रकारे, उक्तञ्च-"दिव्यौदारिककामानां, कृतानुमतिकारितैः । मनोवाकायत