Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 379
________________ माचार्यश्रीविजयातसूरिप्रणीता सरणी टीका. सर्ग- १५५ a n s . .. ...... . ..... . . कोदण्डकाण्डकलितसैन्यैः गन्धर्वाणां असहनजनक्षोभं शत्रुजनवैमनस्यं तन्वन् श्रिया कान्त्या हरितनुजवत् सूर्य इव इयाय चचाल यद्वा तनतननयः सूर्यपुत्रः कर्णः जयाश्रयः जयविजयम् अर्जुनम् आश्र. यति युद्धाय सम्मुखीनं करोतीति तथा हरितनुजवत् वालीव इयाय संग्रामाङ्गणं ययौ अन्यद्विशेषणं पूर्ववद्योज्यमित्यर्थः ।। २ ॥ अनुदिशमपि ध्यायन्नन्तर्दशाननसंगम, दिनमुदयिनं भानुं कर्णे निधाय विचारयन् । करिशिरसि च न्यस्तं हस्तं तपेन्द्रजिता समं, नयनविषयीकुर्वन् गुर्वी पुरः सुरवाहिनीम् ॥३॥ अन्वयः-अनुदिशम् प्रतिदिशम् दशाननसंगमम् ध्यायन दिनमुदायिनम् भानुं कर्णे निधाय विचारयन् तथा इन्द्रजिता समम् करिशिरसि च न्यस्त हस्तम पुरः गुर्वीम् सुरवाहिनी नयनविषयीकुर्वन् अगमदिति पूर्वेणान्वयः ॥ ३ ॥ व्याख्या-अनुदिशम् प्रतिदिशम् दशाननसंगमम् ध्यायन् दश इन्द्रियाणि आनयति तोषयतीति दशाननम् ज्ञानम् वस्तुतत्वम् अन्तर्मनसि ध्यायन् विचारयन् उपयुञ्जन् कथंभूतम् दशाननसंगमम् दिनम् द्यति पापम् कर्म वा इति दिनम् उदयिनम् प्राप्तोदयम् भानुम् प्रत्यक्षाप्रत्यक्षविषयप्रकाशकम् कर्ण निधाय शब्दं श्रुत्वा विचारयन् तत्वद्वस्तुसत्ताविचारपरः यद्वा करो राजप्राण्यां शोऽस्यास्तीति करी नृपः "पलिहस्तांशवः करा इत्यमरः" तस्य करिणो नृपस्य शिरसि न्यस्तम् मूर्ध्नि स्थापितम् धर्ममित्यर्थः नृपस्य धर्ममूलत्वात् कर्णे निधाय विचारयन् तत्वनिर्णयं कुर्वन् तथा इन्द्रजिता समम् इन्द्रम् परमैश्वर्यसम्पन्नमपि जयतीति इन्द्रजित् साधुः, निस्पृहस्य तणञ्जगदिति तेन समम् अथवा इन्द्रजिदसुरस्तेन असमम् असुरसंगतिरहितम् पुरः अग्रे गुर्नीम् गरीयसीम् सुरवाहिनीम् देवसंहतिम् नयनविषयीकुर्वन् मेत्रगोचरं कुर्वन् अगमदिति पूर्वश्लोकेनान्वयः ॥

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480