Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 462
________________ १३८ महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकावे ....... ..... स्फुरन्मनीषाविमलः सुभद्रा नुरागभागर्जुन एव लोके। श्रीसत्यकीर्तिधुवमङ्गलाख्यो, निर्व्याजसाम्राज्यवतामपीज्यः ॥ २५॥ अन्वयः-स्फुरन्मनीषा विमलः सुभद्रानुरागभाग अर्जुन एवं लोके नियाजसाम्राज्यवतामधीज्यः श्रीसत्यकीर्तिः ध्रुवमङ्गलाख्यः ॥ २५ ॥ व्याख्या--स्फुरन्मनीषा विमलः स्फुरन्ती देदीप्यमाना या मनीषा बुद्धिः सा स्फुरन्मनीषा प्रस्फुरबुद्धिः तया विमलः निर्मल: सुभद्रानुरागभाग् सुभद्रायाः कृष्णभगिन्या योऽनुरागः प्रीतिस्तां भजते इति स अर्जुनः तदभिधानः पाण्डवः नियोजसाम्राज्यवता. मपीज्यः निर्व्याजम् निष्कपटम् संपूर्णमित्यर्थः यत् साम्राज्यं सार्व. भौमत्वम् तदसास्तीति नियाजसाम्राज्यवान् तेषामपि ईज्यः पूजपः श्रीसत्यकीर्तिः सत्या निश्चला कीर्तियशो यस्य स ध्रुवमङ्गलाख्यः ध्रुवमङ्गलनामा अभूदिति शेषः ।। २५ ।। तेजोविशेषाजितभानुभानु स्तस्यानुयातो भरतः सशङ्खः । प्रद्युम्नशाम्बावनुविष्णु कृष्णी, तथोदधिर्धीरगभीरसंज्ञः ॥ २६ ॥ अन्वयः-तेजोविशेषात् जितभानुभानुः तस्य अनुजातः भरतः सशस्त्रः प्रद्युम्नशाम्बी अनुविष्णु कृष्णौ तथा उदधिः धीरगभीरसंज्ञः ॥ २६ ॥ व्याख्या-तेजोविशेषात् तेजसा प्रभावानां विशेषात् आधिक्या जितः पराभूता भानुः सूर्यों येन स तेजोविशेषात् जितमानुः स चासो भानुश्चेति तेजोविशेषाजितभानुभानुः यद्वा तेजोविशेषाजितः का५

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480