Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 463
________________ भाचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग - ९ पराजितः भानोः सूर्यस्य भानुः किरणो येन स तथोक्तः भानुनामाकृष्णतनयः तस्यानुजातः भरतः सशंखः तस्य भानोः कृष्णतनयस्थ अनुजातः अनुजः पश्चाज्जायमानः भरतः सशंखः इमावपि कृष्णतनयौ प्रशुम्नशाम्बौ प्रद्युम्नः रुक्मिणीतनयः शाम्बः जाम्बवतीतनयः तयोर्द्वन्द्वः तौ प्रद्युम्नशाम्बो अनुविष्णु कृष्णौ अनु पश्चात् विष्णुः कृष्णो यस्य स बलरामः कृष्णः वासुदेवः तयोर्द्वन्द्रः तौ अनुविष्णु कृष्णौ रामकृष्णौ तथा उदधिः धीरः गम्भीरः एते सर्वे कृष्णतनयाः तौ धीरगभीरौ संज्ञे ययोः सधीरगंभीरसंज्ञः धीरगंभीरनामा ॥ २६ ॥ इत्यादिनालङ्कृतमन्तरीपं, ४३९ जम्बूसुनाम्ना प्रभवेन नित्यम् । शय्यग्भवेनादधताऽद्भुताय, श्रीमद्यशोभद्रपदं स्वगोत्रे ॥ २७ ॥ अन्वयः --- इत्यादिना अलंकृतं अन्तरीपम् जम्बूसुनाम्ना प्रभवेन नित्यम् अद्भुताय स्वगोत्रे श्रीमद्यशोभद्वपदम् आदधता शय्यं भवेन ॥ २७ ॥ व्याख्या - इत्यादिना पूर्वोक्तप्रकारेण अथवा जम्बूसुनाम्ना जम्बू इति सुष्ठुनाम यस्य तेन तथोक्तेन गुणरत्नमयत्वेन जम्बूद्वीपे जम्बूरिव जम्बुः स चासौ खामी चेति जम्बुखामी तेन प्रभवेन प्रभु aar अथ च तत्पट्टे क्रमागतेन प्रभवस्वामिना प्रभवति अस्मात् श्रुतमिति प्रभवेन स्वगोत्रे गां पृथ्वीं त्रायते इति गोत्रः स्वस्य गोत्रः स्वगोत्रः तस्मिन् यद्वा स्वस्थ गौः स्वगौः तां त्रायते इति स्वगोत्रस्तस्मिन् अथवा स्वगोत्रे स्वकीय परम्परापदे शय्यभवेन शय्याया भवतीति शय्यभवः गुम्फनकर्त्ता " शय्या गुम्फनमिति शब्दस्तोममहानिधिः" सृष्टिविधानदक्षः पालकत्वेनेत्यर्थः तेन अथ च शय्यभवनाम्ना स्वामिना स्वशिष्यपरंपरागतेन श्रीमद्यशोभद्रपदम् यशसा की

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480