Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 471
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-९ ४४. नित्यं सजनतोपकारकरणे लग्नो निमनः शिवे सद्धर्मोपचयाश्चितो विजयते ह्यको धरामण्डले ॥११॥ तस्य प्रभोश्चरणपंकजचंचरीको विद्यावदात्तविजयामृतसूरिनामा । स्वीयान्यदीय निगमागमपारहवा विश्वासभूमिरधिभूमिसमस्तजन्तोः ॥ १२ ॥ सोऽयं शास्त्रविशारदो बहुगुणग्रामैकधामा कवि रनः प्रोच्छलदच्छशारदशशिज्योत्स्नाभकीर्तिवजः । विद्वन्मण्डलमण्डनोऽमलमना भट्टारकाचार्यकः, शुद्धाचारविचारचर्चितसदाचारांचितो राजते ॥ १३ ॥ कार्पव्यवाणिज्यपुरे पुरन्दराऽमरावतीही पदमाददाने । श्रीमद्गुरोः शासनसन्नतांगो वासं चतुर्मासमचीकरत्सः ॥ १४ ॥ श्री न्यालचन्द्रादिकसंघसत्कृत स्तेषामतीवादरणीयभावतः । श्री सप्तसंधानककाव्यटीका कृते मुहुः प्रार्थनयानुरंजितः ॥ १५ ॥ अनल्पयत्नैकमना अनाविलामरीरचत्तत्सरणीं सुविवृतिम् । न धीधनाः कापि परार्थभावनापृथङ्मना जायत एव जातुचित्॥१६॥ कतिरियं कृतिनां नयनक्रमावतरणात्परिपूतकता यदि । सफलता प्रलभेत तदा भृशं सुजनतुष्टिरहोऽतिगरीयसी ॥ १७ ॥

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480