________________
भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-९ ४४. नित्यं सजनतोपकारकरणे लग्नो निमनः शिवे
सद्धर्मोपचयाश्चितो विजयते ह्यको धरामण्डले ॥११॥
तस्य प्रभोश्चरणपंकजचंचरीको
विद्यावदात्तविजयामृतसूरिनामा । स्वीयान्यदीय निगमागमपारहवा
विश्वासभूमिरधिभूमिसमस्तजन्तोः ॥ १२ ॥
सोऽयं शास्त्रविशारदो बहुगुणग्रामैकधामा कवि
रनः प्रोच्छलदच्छशारदशशिज्योत्स्नाभकीर्तिवजः । विद्वन्मण्डलमण्डनोऽमलमना भट्टारकाचार्यकः,
शुद्धाचारविचारचर्चितसदाचारांचितो राजते ॥ १३ ॥
कार्पव्यवाणिज्यपुरे पुरन्दराऽमरावतीही पदमाददाने । श्रीमद्गुरोः शासनसन्नतांगो वासं चतुर्मासमचीकरत्सः ॥ १४ ॥ श्री न्यालचन्द्रादिकसंघसत्कृत
स्तेषामतीवादरणीयभावतः । श्री सप्तसंधानककाव्यटीका
कृते मुहुः प्रार्थनयानुरंजितः ॥ १५ ॥
अनल्पयत्नैकमना अनाविलामरीरचत्तत्सरणीं सुविवृतिम् । न धीधनाः कापि परार्थभावनापृथङ्मना जायत एव जातुचित्॥१६॥
कतिरियं कृतिनां नयनक्रमावतरणात्परिपूतकता यदि । सफलता प्रलभेत तदा भृशं सुजनतुष्टिरहोऽतिगरीयसी ॥ १७ ॥