Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 470
________________ ४४६ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धान महाकाग्ये तपोगच्छच्छायायदबधिरभूत्साधुनिकरे, यदीयाच्छच्छाया क्षपयति महामोहतपनम् । समागच्छत्पट्टे तदनु भुवि रोचिष्णुरधिक श्चतुश्चत्वारिंशत्तम इह जगच्चन्द्र मुनिराट् ॥ ६ ॥ यस्योपदेशमहिमा ननु वर्ण्यते किं सम्राटमहानकबरोऽपि च संप्रबुद्धः । पट्टेऽष्टसागरमिते प्रबभूव हीर सूरिः समस्तमुनिवृन्दविविक्तहीरः ॥ ७ ॥ सद्बुद्धिबुद्धिविजयस्तदनुक्रमेण, पट्टेऽक्षिवासरमितेऽजनि शांतमूर्तिः । यः सर्वदा भुवि जनावनबद्धलक्ष्यो, लक्षीचकार निरवद्यशिवाख्यलक्ष्मीम् ।। ॥ तत्पमुपंकजविकासनभानुमाली, चंचनिशाकरसमुज्ज्वलकीर्तिशाली । श्रीवृद्धिवृद्धिविजयोऽभवदुग्रशील.. शाली सुशासन विभावकशिष्यमाली ॥ ९ ॥ राजद्राजगुणोजनावनमहत्संधानुसंधानवान् , तीर्थोद्धारढवतो व्रतिजनज्ञानप्रचारोत्सुकः । सम्यग्बोधितराजमण्डलनमत्पादारविन्दोऽभव त्तत्पट्टाम्बुनिधावखण्डशशभृत् श्रीनेमिसूरीश्वरः ॥१०॥ योऽयं सम्प्रतिशासनोन्नतिकरः शिष्टान्विनेयान् भृशं नानादेशविशेषकेषु सुकृतोद्धाराय संप्रेषयन् ।

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480