________________
१३८
महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकावे
.......
.....
स्फुरन्मनीषाविमलः सुभद्रा
नुरागभागर्जुन एव लोके। श्रीसत्यकीर्तिधुवमङ्गलाख्यो,
निर्व्याजसाम्राज्यवतामपीज्यः ॥ २५॥
अन्वयः-स्फुरन्मनीषा विमलः सुभद्रानुरागभाग अर्जुन एवं लोके नियाजसाम्राज्यवतामधीज्यः श्रीसत्यकीर्तिः ध्रुवमङ्गलाख्यः ॥ २५ ॥
व्याख्या--स्फुरन्मनीषा विमलः स्फुरन्ती देदीप्यमाना या मनीषा बुद्धिः सा स्फुरन्मनीषा प्रस्फुरबुद्धिः तया विमलः निर्मल: सुभद्रानुरागभाग् सुभद्रायाः कृष्णभगिन्या योऽनुरागः प्रीतिस्तां भजते इति स अर्जुनः तदभिधानः पाण्डवः नियोजसाम्राज्यवता. मपीज्यः निर्व्याजम् निष्कपटम् संपूर्णमित्यर्थः यत् साम्राज्यं सार्व. भौमत्वम् तदसास्तीति नियाजसाम्राज्यवान् तेषामपि ईज्यः पूजपः श्रीसत्यकीर्तिः सत्या निश्चला कीर्तियशो यस्य स ध्रुवमङ्गलाख्यः ध्रुवमङ्गलनामा अभूदिति शेषः ।। २५ ।। तेजोविशेषाजितभानुभानु
स्तस्यानुयातो भरतः सशङ्खः । प्रद्युम्नशाम्बावनुविष्णु कृष्णी,
तथोदधिर्धीरगभीरसंज्ञः ॥ २६ ॥ अन्वयः-तेजोविशेषात् जितभानुभानुः तस्य अनुजातः भरतः सशस्त्रः प्रद्युम्नशाम्बी अनुविष्णु कृष्णौ तथा उदधिः धीरगभीरसंज्ञः ॥ २६ ॥
व्याख्या-तेजोविशेषात् तेजसा प्रभावानां विशेषात् आधिक्या जितः पराभूता भानुः सूर्यों येन स तेजोविशेषात् जितमानुः स चासो भानुश्चेति तेजोविशेषाजितभानुभानुः यद्वा तेजोविशेषाजितः
का५