Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
१०८ महोपाध्याय श्रीमेषविजयगणिविरचिते समसम्मानमहाकाव्ये हततमास्ततमास्तवनैः स्तुतः,
क्वचन भाविनयाद् विनयात् कचित् । शुभविभा भविभाग्यबलात् पदौ,
भुवनपावनपावनधीर्दधे ॥ १५ ॥ अन्वयः–ततमास्तवनैः स्तुतः हततमा: भुवनपावनपावनधीः शुभविभाः क्वचन भाविनयात् क्वचिद्विनयात् भविभाग्यबलात् पदो दधे ॥ १५ ॥
व्याख्या-ततमा विस्तृता ये स्तवनास्ते ततमास्तवनास्तैः अ. तिविस्तृतस्तुतिभिः स्तुतः कृतस्तवनः हततमा हतं विनष्टं तमः किल्वियं यस्य स विनिवृत्ततमाः शुभविभाः शुभा शोभना विभा प्रकाशो यस्य स भुवनपावनपावनधीः भुवनस्य जगतः पावने पवित्रतायां पावना पूता निर्मला धीर्यस्य संसारपूतकरणपवित्रज्ञानवान् वचन कुत्रापि भाविनयात् भाविनां भाग्यवतां जनानां नयात् अनुनयात् यद्वा भावी भविष्यन् यो नयः शुभावहो विधिः तस्मात् "नयः शुभावहो विधिरित्यमरः" क्वचित् कुत्रापि विनयाद श्रद्धालुजनविनयतः प्रार्थनातः भविभाग्यरला भविनां शुभानुध्यायिनां भाग्यबलात् शुभा. दृष्टवशात् पदौ पादौ दधे धृतवान् निहितवान् यत्रायं गच्छति तत्रत्यजनानां शुभादृष्टमेव प्रभवतीति भावः ॥ १५ ॥ भृशमये समये किल केवलं,
स कलयन वलयन्नगमाश्रयत् । अधिकृताधिकृतानशनने वै,
शिवरमां वरमाङ्गलिकी दधौ ॥ १६ ॥ अन्वयः-भृशमये समये स किल केवलं कलयन् नगं कलयन् आश्रयत् अधिकृताधिकृतानशनेन वै शिवरमा वरमांगलिकीन्दधौ ॥ १६ ॥

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480