Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 455
________________ भाचार्य श्री विजयामृतसरिप्रणीता सरणी टीका. सर्ग-९ ५३१ आत्मविशुद्धा सीतापि ततीव्रभावम् व्रतस्य चारित्र्यग्रहणस्य तीव्रभावम् चारित्र्यग्रहणनिश्चयनियमम् प्रपेदे स्वीचकार यद्वा व्रतनीवभावम् व्रतरूपकाठिन्ये यथावनियमपालनसंकल्पं प्रपेदे सीता विशुद्धा सती जयभूषणकेवलिनः पादे प्रव्रज्यामग्रहीदिति तत्वम् ॥ १४ ॥ सुरानुभावाद् भुवि सत्रनिष्ठे, जिनाग्रजाते हरिविप्रयोगात् । हिरण्यरेतःपुरसन्नियोगे, देवस्तुरियादिभुवं दिदेव ॥ १५ ॥ भन्वयः-सुरानुभावात् भुवि सननिष्ठे जिनाग्रजाते हरिविप्रयोगात् हिरण्यरेत:पुरसखियोगे देव: तुरियादिभुवं दिदेव ॥ १५ ॥ व्याख्या-सुरानुभावात सुरायाः मदिराया अनुभावात् प्रभावात् अथवा सुरस्य अग्निकुमारस्य अनुभावात् प्रभावतः मुवि पृथिव्यां जिनाग्रजाते जिनस्य नेमिनाथस्य अग्रजाते अग्रगे कृष्णे सत्रनिष्ठे वनस्थे अग्निकुमारेण दह्य मानां द्वारकां विलोक्य वनवासिनि कृष्णे सति हरिविप्रयोगात हरेरग्नेविप्रयोगात् विशेषेण प्रयोगात् प्रवर्धमानात् यद्वा हरति पापमिति हरिर्जिनेन्द्रो नेमिनाथः तस्य विप्रयोगात् विश्लेषात् हिरण्यरेतः पुरसन्नियोगे पुरे सन्नियोगः संयोगः पुरसन्नियोगः हिरण्यरेतप्तः अग्नेः पुरसन्नियोगः हिरण्यरेतःपुरसन्नियोगे अग्निसात्भूते नगरे "हिरण्यरेता हुतभुग दहनो हव्यवाहन इत्यमरः" देवः कृष्णः तुरीयादिभुवं तुरीयस्य चतुर्थस्य आदिस्तृतीयः स चासो भूश्चेति तुरीयादिभुवं तृतीय भुवं तृतीयनरकं दिदेव जगाम ॥ १५ ॥ 'सत्रं स्थाने यज्ञभेदे सदादाने अरण्ये' इति शब्दस्तोममहानिधिः ।। तदाग्रजन्मा बहुशोचनेन, मोहात्समुल्लासिविलोचनेन ।

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480