Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 459
________________ भाचार्य श्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-९ पराजित: ग्लौश्चन्द्रो येन स कान्तिपराजितचन्द्रः "ग्लौगांकः कला. निधिरित्यमरः" अनेन तस्मिन् सर्वश्लाघ्यत्वं व्यज्यते वृषभादिसेनः वृषभसेन: श्रीनाभिसेनान्वयपुण्डरीकः श्रीनाभिसेनस्य नाभिनृपतेर्योऽन्वयः वंशकुलमित्यर्थः स नाभिसेनान्वयः तत्र पुण्डरीकमिव कम. लमिवेति श्रीनाभिसेनान्वयपुण्डरीकः प्रभाविलासी प्रभया दीप्त्या विभासितुं शोभितुं शीलमस्येति प्रभाविलासी दीप्तिमान् यतिपुण्ड'रीका यतिषु संयमिषु पुण्डरीकमिवेति यतिपुण्डरीकः अथवा यतिश्वासो पुण्डकश्चेति यतिपुण्डरीकः ऋषभसेनः भरतचक्रवर्तिस्तनयस्तस्यैवापरनाम पुण्डरीक इति अत एवात्र कर्मधारयोऽपि संगच्छते ॥ चक्रायुधः श्रीवरदक्षशक्ति स्त्वथार्यदत्ताभिधयाऽवधार्यः। श्रियेन्द्रभूतिविबुधार्चितत्वात्, तत्वानि वेत्ता तपसाऽग्निभूतिः ॥ २१ ॥ अन्वयः---चक्रायुधः श्रीवरदक्षशक्तिः तु अथ आर्यदत्ताभिधया अवधार्यः श्रिया इन्द्रभूतिः विबुधार्चितस्वात् तत्वानि वेत्ता तपसा अग्निभूतिः ॥ २१ ॥ व्याख्या-चक्रायुधः श्रीशान्तिनाथस्य तनयः श्रीवरदक्षशक्तिः श्रीनेमिनाथस्य गणधरःतु पुनः अथ आर्यदत्तः इति अभिधया नाना अवधार्यः बोध्यः श्रिया संपत्त्या कात्या इन्द्र इव देवेन्द्र इव भूतिरश्वर्य यस्य स श्रियेन्द्रभूतिः इन्द्रभूतिनामा श्रीमहावीरवामिनो गणधरः विवुधार्चितत्वात् विबुधैर्देवैः पण्डितैवा अर्चितत्वात् पूजितत्वात तत्वानि परमार्थवस्तूनि वेत्ता ज्ञानवान् तत्त्वज्ञानवान् तपसा संयमेन अमिभूतिः अग्निरिव भूतिः विभूतिः पराक्रमो यस्य स तपसाऽग्नि भूतिः कर्मदाहकत्वादिति भावः अथ च अग्निभूतिरित्याख्यः श्रीमहावीरस्वामिनो गणधरः ॥ २१ ॥

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480