SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ १०८ महोपाध्याय श्रीमेषविजयगणिविरचिते समसम्मानमहाकाव्ये हततमास्ततमास्तवनैः स्तुतः, क्वचन भाविनयाद् विनयात् कचित् । शुभविभा भविभाग्यबलात् पदौ, भुवनपावनपावनधीर्दधे ॥ १५ ॥ अन्वयः–ततमास्तवनैः स्तुतः हततमा: भुवनपावनपावनधीः शुभविभाः क्वचन भाविनयात् क्वचिद्विनयात् भविभाग्यबलात् पदो दधे ॥ १५ ॥ व्याख्या-ततमा विस्तृता ये स्तवनास्ते ततमास्तवनास्तैः अ. तिविस्तृतस्तुतिभिः स्तुतः कृतस्तवनः हततमा हतं विनष्टं तमः किल्वियं यस्य स विनिवृत्ततमाः शुभविभाः शुभा शोभना विभा प्रकाशो यस्य स भुवनपावनपावनधीः भुवनस्य जगतः पावने पवित्रतायां पावना पूता निर्मला धीर्यस्य संसारपूतकरणपवित्रज्ञानवान् वचन कुत्रापि भाविनयात् भाविनां भाग्यवतां जनानां नयात् अनुनयात् यद्वा भावी भविष्यन् यो नयः शुभावहो विधिः तस्मात् "नयः शुभावहो विधिरित्यमरः" क्वचित् कुत्रापि विनयाद श्रद्धालुजनविनयतः प्रार्थनातः भविभाग्यरला भविनां शुभानुध्यायिनां भाग्यबलात् शुभा. दृष्टवशात् पदौ पादौ दधे धृतवान् निहितवान् यत्रायं गच्छति तत्रत्यजनानां शुभादृष्टमेव प्रभवतीति भावः ॥ १५ ॥ भृशमये समये किल केवलं, स कलयन वलयन्नगमाश्रयत् । अधिकृताधिकृतानशनने वै, शिवरमां वरमाङ्गलिकी दधौ ॥ १६ ॥ अन्वयः-भृशमये समये स किल केवलं कलयन् नगं कलयन् आश्रयत् अधिकृताधिकृतानशनेन वै शिवरमा वरमांगलिकीन्दधौ ॥ १६ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy