SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री विजयामृत सूरिप्रणीता सरणी टीका. सर्ग-८ वा विहितवान् कृतवान् कैः अशांतमहोस्तवैः अन्यदुक्तप्रायम् ||१३|| विभविनां भविनां सहिते हिते, वितरणात्तरणात्तरसा भवात् । श्रितसमेतसमेत गिरौ कृता व्यसनभासनभाक् प्रभुराययौ ॥ १४ ॥ ४०७ अन्वयः -- विभविनां भविनां सहिते हिते श्रितसमेतसमेतगिरौ तरसा भवात् वितरणात् हिते वितरणात् कृताव्यसनभासनभाक् प्रभुः आययौ ॥१४॥ व्याख्या - विभविनां विभवशालिनां धनिनामित्यर्थः सहिते संयुक्ते श्रितसमेत समेत गिरौ श्रितः आश्रितः शमेन शांत्या इतः युक्तः शमेतः श्रितः शमेतो यत्र सश्रितशमेतः स चासौ समेतगिरिचेति श्रितमेतसमेत गिरिस्तत्र हिते कल्याणजनके तरसा झटिति भवात् संसारात् वितरणात् निवारकात् संसारविरक्तिकरणात् कृताव्यसनभासनभाक् कृतः समाश्रितः यो व्यसनः संसारानभिनिवेशः तस्य भासनं तेजः तस्माद्भासनं तेजो भजते इति तथोक्तः प्रभुः जिनेश्वर आयौ आजगाम ॥ १४ ॥ रामकृष्णपक्षे - वितरणात् वितः निवृत्तः यो रणः संग्रामः तस्मात् "वातेरितड औणादिकः" तरसा झटिति भवात् समुद्रजलात् तरणात् पारीणत्वात् विभविनां धनिनां भविनां कल्याणवतां सहिते युक्ते हिते हितकारके श्रितसमेतसमेत गिरौ शमेन शांत्या इतः युक्तः शमेतः शांतियुक्तः श्रितैः आश्रितैः गिरिवासिभिः समेतः सहितः इति श्रतसमेतः स चासौ शमेतः श्रितसमेतसमेतः स चासौ गिरिचेति श्रितसमेतसमेत गिरिस्तस्मिन् चित्रकूटेसु वेलाद्रौ रैवतके वा कृतः आश्रितः योऽव्यसनः केष्वपि अनभिनिवेशः तेन भासने भजते इति तथा प्रभुः रामः कृष्णो वा आययौ समागतवान् ॥ १४ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy