Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
२६ महोपाध्यायधीमेघविजयगणिविरचिते सप्तसम्भानमहाकाम्ये कृष्णपत्न्यः विहस सकर्ण कर्णेन सहितः सकर्णस्तं विहसव यशखिनम् कर्णनृपमपि विहसत् निन्दत् यशःसुवर्ण कीर्तिसुवर्ण सदा सर्वदा उपकर्ण कर्णसमीपं विदधाति शृणोति कृष्णपत्न्य अपि एताः प्रभोर्यशः सदैवाकर्णयन्तीति भावः ॥ ८ ॥ गौरीव कान्त्या परिपूरणेन,
पद्मेव निश्छद्मतया जयाय । गान्धारिका जाम्बवती च साम्ब
प्रद्युम्नलीलालयमाश्रयन्ती ॥९॥ अन्वयः-कात्या परिपूरणेन गौरीव निश्छद्मतया जयाय पन्नेव साम्बप्रघुम्नलीलालयमाश्रयंती गांधारिका जाम्बवती च ॥ ५ ॥
व्याख्या-सा कीर्तिः जिनेश्वरकीर्तिरितिभावः कांत्या दीप्त्या परिपूरणेन कान्तिसमृहेन गौरीव कृष्णपत्नी वीतभयतनयेव अथ च गौरी पार्वतीय निश्छमतया निष्कपटतया जयाय त्रैलोक्यविजयाय पद्मेव पद्मा कृष्णपत्नी हिरण्यनामकन्या सेव अथ च पद्मा लक्ष्मीः सेव साम्बप्रद्युम्नलीलालयमाश्रयन्ती साम्बश्च प्रद्युम्नश्चेति साम्बप्रद्युम्नौ तयोर्लीला साम्बप्रद्युम्नलीला तस्या लयं संश्लेषं संम्बन्धम् आश्रयन्ठी संस्पृशन्ती गांधारिका कृष्ण पत्नी नग्नजित्तनया जाम्बवती कृष्णमहिषी जाम्बवतः दुहिता वा अथ च साम्बप्रद्युम्नलीलालयमाश्रयन्ती अम्व्यते स्निह्यतीत्यम्बा प्रकष्टं शुम्नं बलं यस्य स प्रद्युम्नः तयोः स्नेहबलयोः लीलालयं लीलासंबन्धम् आश्रयन्ती गांधारी जाम्बवती इत्युमे शासनदेवते इत्र स कीर्ति विराजते इति शेषः ।। उपमालंकारः । पटीयसी कीर्तिरियं नटीत्र,
लोके नरीनर्ति विभोविभाते ।

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480