Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 452
________________ ११८ महोपाग्याय श्रीमेषविजयगणिविरविते सालसम्मानमहाकावे .......... वती प्रमा प्रकाशिका शक्तिः कवेः कवित्वशक्तिमतः लीना आश्लिष्टा बोधभरस्मरा बोधभरेण ज्ञानभरेण स्मरा स्मृतिरिव अंगे शरीरे रतिप्रभा रतेः कामपत्न्याः प्रभा इव सौन्दर्यसम्पत्तिरिव श्रीहृदि श्रियः लक्ष्म्याः हृदि हृदये कुन्ददामा कुन्दपुष्पस्रगिव कुन्दकुसुममालेव सा कीर्तिर्विरराजेति शेषः ॥११॥ सीता-प्रभावती-रतिप्रभा-श्रीदामा-इति चतस्रो रामपन्यः विराजन्त इति शेषः ॥ ११ ॥ तदा समुद्भूतमया (?) दनीति भावः पुरे व्यासि तमः प्रसन्नम् । कोलीनवांस्तद्धरणेन सीता मापन्नसत्वां स वने मुमोच ॥ १२॥ अन्वयः--तदा समुद्भूतमयात् भनीतिः भावः तमः प्रसन्नम् पुरे ब्यासि कौली रवान् स तद्धरणेन आपनसत्वां सीता वने मुमोच ॥ १२ ॥ व्याख्या-तदा रामराज्यकाले समुद्भूतमयात् उत्पन्नमयात् अनीतिभावः अन्यायभावः जात इति शेषः सीतां विद्विषतीभिः सपत्नीभिस्तथा प्रपश्चितं यथा राममनसि किमप्यनीतिभावः जात इति तत्वम् तद्धरणेन तस्याः सीतायाः धरणेन रावणगृहादानीयस्वीकारेण तमः प्रसन्नम् सीतारावणाङ्कगताऽऽसीदिति कथं निष्कल्म. पेति सीतामाश्रित्य जनापवादरूपं तमः मालिन्यं प्रसन्नम् बहुलीभूतं पुरे नगरे अयोध्यायां व्यासि व्याप्तम् कोलीनवात् कुलाभिमानी स रामः आपनसत्वाम् सगर्भाम् सीताम् जनकराजदुहितरम् वने निर्जनारण्ये मुमोच तत्याज जनापवादभीत्या सगर्भामपि सीतां वने त्यक्तवानित्यर्थः ।। १२ ॥

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480