Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 430
________________ ४०६ महोपाध्याय श्रीमेधविजयगणिविरचिते सप्तसन्मानमहाकाग्ये सुरधुनी गंगा तां तटति खसंगमेन सौभाग्योन्नतिङ्करोतीति मुरधुनीतट: समुद्रः तत्र गच्छतीति तान् समुद्रतटगान् राक्षसान पापिष्ठान् अधुनीत इत्यर्थोपि परिस्फुरति अन्यत् समानम् ।। १२ ॥ विहितवान् हितवार्षिकदानतो, व्रतदशां तदशान्तमहोत्सवैः । धनतपा नतपादकजः सूरे मदनतोदनतो वनभावनः ॥ १३ ॥ अन्धयः-धनतपाः सुरैः नतपादकजः मद नतोदनतो वनभावनः हितचार्षिकदानतः तदशांतमहोत्सवैः व्रतदशा विहितवान् ॥ १३ ॥ व्याख्या-घनतपाः घनो महान तपः प्रभावो यस्य स मह. त्पराक्रमः नतपादकजः सुरैर्देवैविद्याधरादिभिः नतः प्रणतः पादक चरणकमलं यस्य स अथवा सुष्टु रांतीति सुराः नृपाः तैः नतपा दकजा नमस्कृतचरणकमलः मदनतोदनतो वनभावनः मदयतीति मदनं मधु सुरेति यावत् तस्य तोदनतः निराकरणतः अथवा मदनस्य कामस्य तोदनतः स्वसौन्दर्यात पराजयतः यद्वा मदनस्याहंकारस्य तोदनतस्त्यागतः अहंकारपरित्यागात् अवनभावनः अवने रक्षणे भावना विचारणा यस्य स प्रजारक्षणसावधानः यद्वा वने तपोवने भावना बुद्धिर्यस्य स हितवार्षिकदानतः हितं हितार्थ यद्वार्षिकदानं तस्मात् तदशांतमनोरथैः तस्याः सुन्दर्याः अशान्तमहोत्सवैः अहर्निशमुद्धवैः व्रतदशां सुन्दरी व्रतग्रहणदशां विहितवान् कृतवान् ॥१३॥ अन्यपक्षे-हितवार्षिकदानतः हितमिष्टसाधनभूतं परिणाममंगलजनकं यद्वार्षिकदानं संवत्सरव्यापकदानम् रामपक्षे चतुर्दशवर्ष यावत् वनवासस्येति शेषः दानं पालनम् ततः “दानं गजमदे पालने छेदने इति शब्दस्तोममहानिधिः" व्रतदशां दीक्षाग्रहणदशां वनवासनियम

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480