Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
भाचार्य श्री विजयामृतरिमगीता सरणी टीका. सर्ग-८ १०५ व्याख्या-पुनः पुनरपि खचरेशिनाम् विद्याधराणाम् नमिविनमिप्रभृतीनाम् धरम् पर्वतम् उपेत्य आगत्य तत्रत्यान् विजित्य खंडनिपातिनीम् खण्डप्रपातानाम्नीम् परदरीम् महती गुफाम् समतिगत्य समतीत्य स राजा मदी अहङ्कारवान् न ईश्वरः, ऐश्वर्य सम्पन्नः सन्निधौ समीपे नवनिधीन नवप्रकारान् निधीन ऐश्वर्य विशेषान् समदीधरत् धृतवान् " महापद्मश्च पद्मश्च शंखो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नवेत्यमरः" ॥ ११ ॥ सुरधुनीतटगानधुनीत स,
क्षतपरातपराज्यपरिग्रहः । स्वपुरमाप्य समास्त पुनः पुना,
रसमयान् समयाननयन्महैः ॥ १२ ॥ अन्वयः-स सुरधुनीतटगान् अधुनीत क्षतपरातपराज्यपरिग्रहः स्वपुरमाप्य पुनः पुनः महैः रसमयान् समयान् अनयत् समास्त ॥ १२ ॥
व्याख्या–स भरतचक्रवर्ती मुरधुनीतटगान् गंगातटस्थान् अधुनीत अकंपयत पराजितवान् क्षतपरातपराज्यपरिग्रहः क्षतात दुःखाव परे भिन्नाः रहिता इत्यर्थः इति क्षतपराः तपतीति तपः सूर्यः आतपाद सूर्यप्रकाशपर्यन्तं मर्यादायामव्ययीभावः क्षतपराः आतपं. राज्यपरिग्रहो यस्य सक्षतपरातपराज्यपरिग्रहः स्वपुरं वनगरम् आप्य प्राप्य समागत्येत्यर्थः पुनः पुनः भूयोभूयः महैः उत्सवैः "मह उद्धव उत्सव इत्यमरः" रसमयान् सरसान समयान कालान् अनयन व्यतीतयन् समास्त आतिष्ठते ॥
अन्यपक्षेऽपि स मुरधुनीतटगान सुरान् देवान् धुनाति स्वसा. मध्येन कम्पयतीति सुरधुनी राक्षससेना तस्यास्तटं समीपं कक्षं वा वत्र गच्छत्तीति तान् राक्षससेनापक्षपातिना अधुनीत व्यकंपयत यद्वा

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480