Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 427
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग- ८ ५ .३ उपतमिस्रचलद्बहुसेनया, व्यपनयननयाद्विनयादरात् । अवितथाः पथि पूर्वकथा बुधात् , समशृणोन्मस्मृणोऽवनिजे निजे ॥ ८॥ अन्वयः- उपतमिनचलत् बहुसेनया विनयादरात् अनयात व्यपनयन् पधि बुधात् अत्रितथा: पूर्वकथाः निजे अवनिजे मसूणः सपशणोत् ॥ ८ ॥ व्याख्या- बहुसेनया अनेकविधसैन्येन सह उपतमिस्रचलन तमिस्रानामकगुहां प्रति चलत् उपतमिस्रं चलतीति उपतमिस्रचलन विनयादरात विनयस्य शिक्षाया अनुनयस्य सौजन्यस्य वा आदरात सन्मानात् अनयात् अनीतेः लोकमिति शेषः व्यपनयन् विनयादरेण अनीतितः लोकान् पृथक्कुर्वन् इति भावः निजे स्वकीये अवनिजे लोके. मसणः ऋजुः अकर्कश इत्यर्थः स्वकीयजनानुकूल इति भावः पथिमार्गे बुधात् पण्डितात् अवितथाः सत्याः पूर्वकथाः प्राचीनेतिहासाः पूर्वेषाम्बा चरित्राणि समशृणोत् आकर्णितवान् ॥ ८ ॥ जगति यः सविता भविताऽर्चिषा, सनु गुहां सवहां नवपद्यया । ध्रुवमतीत्य गिरेस्तदुदग्दिशो, वशमधाच्छमधीरणया-जनम् ॥९॥ अन्वयः--यः जगति अर्चिपा सबिता भविता स नु नवपद्यया सवहां गिरेः गुहां ध्रुवमतीत्य शमधोरणया तदुदगदिशः जनम् वशमधात् ॥ ९ ॥ व्याख्या--यः भरतचक्रवर्ती अर्चिषा तेजसा प्रतापेनेत्यर्थः जगति भुवने सविता सूर्यः भविता भविष्यति स नु इति वितर्के नव. पद्यया नूनसेतुरुपपद्धत्या सवहां वहया उनमग्नानिमग्नाभिधाननदी. द्वयया सहिता इति सवहा ताम् गिरेः वैताढ्यपर्वतस्य गुहां तमिस्रा.

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480